________________
आलापपद्धतिः।
अथ पर्यायार्थिकस्य षड्भेदा उच्यन्ते,अनादिनित्यपर्यायार्थिको यथा पुद्गलपर्यायो नित्यो मे - दिः। सादिनित्यपर्यायार्थिको यथा-सिद्धपर्यायो नित्यः । सत्तागौणत्वेनोत्पादव्ययग्राहकस्वभावो नित्याशुद्धपर्यायार्थिः को यथा-समयं समयं प्रति पर्याया विनाशिनः। सत्तासापेक्षस्वभावो नित्याशुद्धपर्यायार्थिको यथा-एकस्मिन् समये त्रयात्मकः पर्यायः। कर्मोपाधिनिरपेक्षस्वभावो नित्यशुद्ध पर्यायार्थिको यथा-सिद्धपर्यायसदृशाः शुद्धाः संसारिणां पर्यायाः । कर्मोपाधिसापेक्षस्वभावोऽनित्याशुद्धपर्यायार्थिको. यथा-संसारिणामुत्पत्तिमरणे स्तः। इति पर्यायार्थिकस्य षड़ भेदाः।
नैगमस्त्रेधा भूतभाविवर्तमानकालभेदात् । अतीते वर्त: मानारोपणं यत्र स भूतनैगमो यथा-अद्य दीपोत्सवदिने श्रीवर्द्धमानस्वामी मोक्षं गतः। भाविनि भूतवत्कथनं यत्र स भाविनैगमो यथा-अर्हन सिद्ध एव । कर्तुमारब्धमीषन्निष्प. नमनिष्पन्नं वा वस्तु निष्पन्नवत्कथ्यते यत्र स वर्तमाननैगमो यथा-ओदनः पच्यते इति नैगमस्त्रेधा। ___ सङ्ग्रहो द्विविधः । सामान्य सङ्ग्रहो यथा--सर्वाणि द्रव्या. णि परस्परमविरोधीनि । विशेषसङ्ग्रहो यथा--सर्व जीवाः परस्परमविरोधिनः इति सङ्ग्रहोऽपि द्विधा। ___ व्यवहारोऽपि द्वेधा । सामान्यसङ्ग्रहभेदको व्यवहारो यथा--द्रव्याणि जीवाजीवाः। विशेषसङ्ग्रहभेदको व्यवहारो यथा--जीवाः संसारिणो मुक्ताश्व इति व्यवहारोऽपि द्वेधा।
ऋजुसूत्रो द्विविधः। सुक्ष्मणुसूत्रो यथा-एकसमयाव