________________
बृहत्स्वयम्भूस्तोत्रम्। बाह्यं तपः परमदुश्चरमाचरंस्त्वमाध्यात्मिकस्य तपसः परिहणार्थम् । ध्यानं निरस्य कलुषद्वयमुत्तरस्मिन् ध्यानये ववृतिषेतिशयोपपन्ने ॥ ३ ॥ हुत्वा स्वकर्मकटुकप्रकृतीश्चतस्रो रत्नत्रयातिशयतेजसि जातवीर्य्यः । विभ्राजिषे सकलवेदविधेर्विनेता प्यभ्रे यथा वियति दीप्तरुचिर्विवस्वान् ॥ ४॥ यस्मान्मुनीन्द्र तव लोकपितामहाद्या विद्याविभूतिकणिकामपि नाप्नुवन्ति । तस्माद्भवन्तमजमप्रतिमेयमार्याः स्तुत्यं स्तुवन्ति सुधियः स्वहितैकतानाः ॥ ५ ॥
इति कुन्थुजिनस्तोत्रम्. गुणस्तोकं सदुल्लंध्य तद्वदुत्वकथा स्तुतिः । मानन्त्यात गुणा वक्तुमशक्यास्त्वयि सा कथम् ॥ ६॥ तथापिते मुनीन्द्रस्य यतो नामापि कीर्तितम् । पुनाति पुण्यकीर्तेर्नस्ततो ब्रूयाम किञ्चन ॥७॥ लक्ष्मीविभवसर्वस्वं मुमुक्षोश्चक्रलाञ्छनम् । साम्राज्यं सार्वभौमं ते जरत्तणमिवाभवत् ॥ ८ ॥ तव रूपस्य सौन्दयं दृष्ट्वा तृप्तिमनापिवान् । घ्वतः शकः सहस्राक्षो बभूव बहुविस्मयः ॥८६॥ मोहरूपो रिपुः पापा कषायभटसाधनः । राष्टिसम्पदुपेतास्त्र स्त्वया धीर पराजितः ॥ ६०॥ कन्दर्पस्योहरो दर्पस्रलोक्यविजयार्जितः ।