________________
आलापपद्धतिः ।
,
अनाद्यनिधने द्रव्ये स्वपर्यायाः प्रतिक्षणम् । उन्मज्जन्ति निमज्जन्ति जलकल्लोलवज्जले ॥ १ ॥ धर्माधर्मनभःकाला अर्थपर्यायगोचराः । व्यञ्जनेन तु संबद्धौ द्वावन्यौ जीवपुद्गलौ ॥ २ ॥ इति पर्यायाधिकारः । गुणपर्ययवद्रव्यम् । स्वभावाः कथ्यन्ते । अस्तिस्वभावः, नास्तिस्वभावः, नि. त्यस्वभावः, अनित्यस्वभावः, एकस्वभावः, अनेकस्वभावः, भेदस्वभावः, अभेदस्वभावः, भव्यस्वभावः अभव्यस्वभावः, परमस्वभावः, द्रव्याणामेकादश सामान्यस्वभावाः । चेतनस्वभावः, अचेतनस्वभावः, मूर्त्तस्वभावः, अमूर्त्तस्वभावः, एकप्रदेशस्वभावः, अनेकप्रदेशस्वभावः, विभावस्वभावः, शुद्धस्वभावः अशुद्धस्वभावः, उपचरितस्वभावः, एते द्रव्याणां दश विशेषस्वभावाः । जीवपुद्गलयोरेकविंशतिः, चेतनस्वभावः मूर्तस्वभावः, विभावस्वभावः, एकप्रदेशस्वभावः, अशुद्धस्वभाव एतैः पञ्चभिः स्वभावैर्विना धर्मादित्रयाणां षोडश स्वभावाः सन्ति । तत्र बहुप्रदेशं विना कालस्य पञ्चदश स्वभावाः । एकविंशतिभावाः स्युर्जीवपुद्गलयांर्मताः ।
धर्मादीनां षोडश स्युः काले पञ्चदश स्मृताः ॥ ३ ॥
ते कुतो ज्ञेयाः ? प्रमाणनयविवक्षातः । सम्यग्ज्ञानं प्रमा. णम् । तद्वेधा प्रत्यक्षेतरभेदात् । अवधिमनः पर्ययावेक देशप्र त्यक्षौ । केवलं सकलप्रत्यक्षं । मतिश्रुते परोक्षे । प्रमाणमुक्तं । तद्वयवा नयाः ।
नयभेदा उच्यन्ते, -
णिच्छयववहारणया मूलमभेयाण याण सव्वाणं ।
१६७