________________
१६६
प्रथम गुच्छक |
चेतनत्वममूर्तत्वमिति षट् । पुलस्य स्पर्शरसगन्धवर्णाः मूतत्वमचेतनत्वमिति षट् । इतरेषां धर्माधर्माकाशकालामां प्र त्येकं त्रयो गुणाः । धर्मद्रव्ये गतिहेतुत्वममूर्तत्वमचेतनत्वमेते यो गुणाः । अधर्मद्रव्ये स्थितिहेतुत्वममूर्तत्वमचेतनत्वमिति । आकाशद्रव्ये अवगाहनहेतुत्वममूर्तत्वमचेतनत्वमिति । कालद्रव्ये वर्त्तनाहेतुत्वममूर्तत्वमचेतनत्वमिति विशेषगुणाः । अन्तस्थाश्चत्वारो गुणाः स्वजात्यपेक्षया सामान्यगुणा विजात्यपेक्षया त एव विशेषगुणाः । इति गुणाधिकारः ।
,
गुणविकारा: पर्यायास्ते द्वेधा स्वभावविभावपर्यायभेदा त् । अगुरुलघुविकाराः स्वभावपर्यायास्ते द्वादशधा षड्द्धिरूपाः षट्टानिरूपाः । अनन्तभागवृद्धिः असंख्यात भागद्धि, संख्यात भागवृद्धिः, संख्यातगुणवृद्धिः असंख्यातगुणवृद्धिः, अनन्तगुणवृद्धिः, एवं षड्वृद्धिरूपास्तथा अनन्तभागहानिः असंख्यात भागहानिः संख्यात भागहानिः, संख्यातगुणहानिः असंख्यातगुणहानिः, अनन्तगुणहानिः एवं षड्ढा. निरूपा ज्ञेयाः । विभावद्रव्यव्यञ्जन पर्यायश्चतुर्विधा नरनार कादिपर्यायाः अथवा चतुरशीतिलक्षा योनयः । विभावगुणव्यञ्जनपर्याया मत्यादयः । स्वभावद्रव्यव्यञ्जनपर्यायाश्वरमशरीरात्किञ्चिन्न्यूनसिद्ध पर्यायाः । स्वभावगुणव्यञ्जनपर्याया अनन्तचतुष्टयस्वरूपा जीवस्य । पुद्गलस्य तु यणुकादयो विभा यद्रव्यव्यञ्जनपर्यायाः । रसरसान्तरगन्धगन्धान्तरादिविभावगुणव्यञ्जनपर्यायाः । अविभागिपुद्गलपरमाणुः स्वभावद्रव्य व्यञ्जनपर्यायः । वर्णगन्धर सैकैकाविरुद्धस्पर्शद्वयं स्वभावगुण. व्यञ्जनपर्याय: ।
•
,
'"