________________
श्रीमद्देवसेनविरचिता आलापपद्धतिः।
(७) गुणानां विस्तरं वक्ष्ये स्वभावानां तथैव च। पर्यायाणां विशेषेण नत्वा वीरं जिनेश्वरम् ॥ १ ॥
आलापपद्धतिर्वचनरचनाऽनुक्रमेण नयचक्रस्योपरि उच्य. ते। सा च किमर्थम् ? द्रव्यलक्षणसिद्ध्यर्थम् स्वभावसिद्यः र्थश्च । द्रव्याणि कानि ? जीवपुद्गलधर्माधर्माकाशकालद्रव्याणि । सद्व्यलक्षणम्, उत्पादव्ययध्रौव्ययुक्तं सत् । इति द्र व्याधिकारः। ___ लक्षणानि कानि ? अस्तित्वं, वस्तुत्वं, द्रव्यत्वं, प्रमेयत्वं, अगुरुलघुत्वं, प्रदेशत्वं, चेतनत्वमचेतनत्वं मूर्तत्वममूर्तत्वं द्रव्याणां दश सामान्यगुणाः प्रत्येकमष्टावष्टौ सर्वेषाम् । ..
[एकैकद्रव्ये अष्टौ अष्टौ गुणाः भवन्ति । जीवद्रव्ये अचे. तनत्वं मूर्त्तत्वंच नास्ति, पुद्गलद्रव्ये चेतनत्वममूर्तत्वंच ना. स्ति, धर्माधर्माकाशकालद्रव्येषु चेतनत्वं मूर्तत्वं च नास्ति । एवं द्विद्विगुणवर्जिते अष्टौ अष्टौ गुणाः प्रत्येकद्रव्ये भवन्ति । ] ___ ज्ञानदर्शनसुखवीर्याणि स्पर्शरसन्धवर्णाः गतिहेतुत्वं स्थि. तिहेतुत्वमवगाहनहेतुत्वं वर्तनाहेतुत्वं चेतनत्वमचेतनत्वं भू. तत्वममूर्तत्वं द्रव्याणां षोडश विशेषगुणाः । षोडशविशेषगुणेषु जीवपुद्गलयोः षडिति । जीवस्य ज्ञानदर्शनसुखवीर्याणि