SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छुक । दर्शनशानचारित्रत्रयमात्मैव स स्मृतः ॥ १६ ॥ दर्शनशानचारित्रपर्यायाणां य आश्रयः । दर्शनज्ञानचारित्रत्रयमात्मैव स स्मृतः ॥ १७ ॥ दर्शनज्ञानचारित्रप्रदेशा ये प्ररूपिताः । दर्शनज्ञानचारित्रमयस्यात्मन एव ते ॥ १८ ॥ १६४ १९ ॥ दर्शनज्ञानचारित्रागुरुलध्वाह्वया गुणाः । दर्शनशानचारित्रमयस्यात्मन एव ते ॥ दर्शनज्ञानचारित्रध्रौव्योत्पादव्ययास्तु ते । दर्शनज्ञानचारित्रमयस्यात्मन एव ते ॥ २० ॥ स्यात्सम्यक्त्वज्ञानचारित्ररूपः पर्यायार्थादेशतो मुक्तिमार्गः । एको ज्ञाता सर्वदैवाद्वितीयः स्याद्द्रव्यार्थादेशतो मुक्तिमागः ॥ २१ ॥ तत्त्वार्थसारमिति यः समधिर्विदित्वा निर्वाणमार्गमधितिष्ठति निःप्रकम्पः । संसारबन्धमवधूय स धृतमोह चैतन्यरूपमचलं शिवतत्त्वमेति ॥ २२ ॥ वर्णाः पदानां कर्त्तारो वाक्यानां तु पदावलिः । वाक्यानि चास्य शास्त्रस्य कर्तृणि न पुनर्वयम् ॥ २३ ॥ इति श्रीमदमृतचन्द्रसूरीणां कृतिः तत्त्वार्थसारो नाम मोक्षशास्त्रं समाप्तम् ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy