SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसारः । सम्यक्त्वज्ञानवृत्तात्मा स मार्गो व्यवहारतः ॥ ४ श्रद्दधानः परद्रव्यं बुद्ध्यमानस्तदेव हि । तदेवेोपेक्षमाणश्च व्यवहारी स्मृतो मुनिः ॥ ५ ॥ स्वद्रव्यं श्रद्दधानस्तु बुद्ध्यमानस्तदेव हि । तदेवोपेक्षमाणश्च निश्चयान्मुनिसत्तमः ॥ ६ ॥ आत्मा ज्ञातृतया ज्ञानं सम्यक्त्वं चरितं हि सः । स्वस्थ दर्शनचारित्रमोहाभ्यामनुपप्लुतः ॥ ७ ॥ पश्यति स्वस्वरूपं यो जानाति च चरत्यपि । दर्शनज्ञानचारित्रत्रयमात्मैव स स्मृतः ॥ ८ ॥ पश्यति स्वस्वरूपं यं जानाति च चरत्यपि । दर्शनज्ञानचारित्रत्रयमात्मैव तन्मयः ॥ ९ ॥ दृश्यते येन रूपेण ज्ञायते चर्यतेऽपि च । दर्शनज्ञानचारित्रत्रयमात्मैव तन्मयः ॥ १० ॥ यस्मै पश्यति जानाति स्वरूपाय चरत्यपि । दर्शनज्ञानचारित्रत्रयमात्मैव तन्मयः ॥ ११ ॥ यस्मात्पश्यति जानाति स्वं स्वरूपाच्चरत्यपि । दर्शनशानचारित्रत्रयमात्मैव तन्मयः ॥ १२ ॥ यस्य पश्यति जानाति स्वरूपस्य चरत्यपि । दर्शनज्ञानचारित्रत्रयमात्मैव तन्मयः ॥ १३ ॥ यस्मिन् पश्यति जानाति स्वस्वरूपे चरत्यपि । दर्शनशानचारित्रत्रयमात्मैव तन्मयः ॥ १४ ॥ ये स्वभावाद्दशिज्ञप्तिचर्या रूपक्रियात्मकाः । दर्शनज्ञानचारित्रत्रयमात्मैव तन्मयः ॥ १५ ॥ दर्शनज्ञानचारित्रगुणानां य इहाश्रयः । १६३
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy