SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक । पुण्यकर्मविपाकाच्च सुखमिष्टेन्द्रियार्थजम् । कर्मकशविमोहाच मोक्षे सुखमनुत्तमम् ॥ ४९ ॥ सुषुप्तावस्था तुल्यां केचिदिच्छन्ति निर्वृतिम् । तदयुक्तं क्रियावत्वात्सुखातिशयतस्तथा ॥ ५० ॥ श्रमक्लममदव्याधिमदनेभ्यश्च संभवात् । मोहोत्पत्तिविकाराच्च दर्शनघ्नस्य कर्मणः ॥ ५१ ॥ लोके तत्सदृशो ह्यर्थः कृत्स्नेऽप्यन्यो न विद्यते । उपमीयेत तद्येन तस्मान्निरुपमं स्मृतम् ॥ ५२ ॥ लिङ्गप्रसिद्धे सामान्यमनुमानापमानयोः । अत्यन्तं चाप्रसिद्धं यत्तत्तेनानुपमं स्मृतम् ॥ ५३ ॥ प्रत्यक्षं तद्भगवतामर्हतां तैः प्रभाषितम् । गृह्यतेऽस्तीत्यतः प्राज्ञैर्न च्छद्मस्थपरीक्षया ॥ ५४ ॥ इत्यं तन्मोक्षतस्वं यः श्रद्धत्ते वेत्युपेक्षते । शेषतत्त्वैः समषभिः स हि निर्वाणभाग्भवेत् ॥ ५५ ॥ इति मोक्षतत्त्ववर्णनम् । १६२ उपसंहारः प्रमाणनयनिक्षेप निर्देशादिसदादिभिः । सप्ततत्त्वमिति ज्ञात्वा मोक्षमार्ग समाश्रयेत् ॥ १ ॥ निश्वयव्यवहाराभ्यां मोक्षमार्गों द्विधा स्थितः । तत्राद्यः साध्यरूपः स्याद्वितीयस्तस्य साधनम् ॥ २ ॥ श्रद्धानाधिगमोपेक्षाः शुद्धस्य स्वात्मनो हि याः । सम्यक्त्वज्ञानवृत्तात्मा मोक्षमार्गः स निश्चयः ॥ ३ ॥ श्रद्धानाधिगमोपेक्षा याः पुनः स्युः परात्मना ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy