________________
तत्त्वार्थसारः।
शानावरणहानान्ते केवलज्ञानशालिनः । दर्शनावरणच्छदादुद्यत्केवलदर्शनाः ॥ ३७॥ वेदनीयसमुच्छेदादव्याबाधत्वमाश्रिताः । मोहनीयसमुच्छेदात्सम्यक्त्वमचलं श्रिताः ॥ ३८॥ आयुःकर्मसमुच्छेदात्परमं सौक्ष्म्यमाश्रिताः। नामकर्मसमुच्छेदादवगाहनशालिनः ॥ ३९ ॥ गोत्रकर्मसमुच्छेदात्सदाऽगौरवलाघवाः । अन्तरायसमुच्छेदादनन्तवीर्यमाश्रिताः ॥ ४०॥ काललिङ्गगतिक्षेत्रतीर्थज्ञानावगाहनैः । बुद्धवोधितचारित्रसङ्ख्याल्पबहुतान्तरैः ॥ ४१ ॥ प्रत्युत्पन्ननयादेशात्ततः प्रज्ञापनादपि । अप्रमत्तबुधैः सिद्धाः साधनीया यथागमम् ॥४२॥ तादात्म्यादुपयुक्तास्ते केवलज्ञानदर्शने । सम्यक्त्वसिद्धतावस्था हेत्वभावाच्च निःक्रियाः॥४३॥ ततोऽप्यूर्द्धगतिस्तेषां कस्मानास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात्स हि हेतुर्गतेः परं ॥४४॥ संसारविषयातीतं सिद्धानामव्ययं सुखम् । अन्याबाधमिति प्रोक्तं परमं परमर्षिभिः॥४५॥ स्यादेतदशरीरस्य जन्तोनष्टाष्टकर्मणः । कथं भवति मुक्तस्य सुखमित्युत्तरं शृणु ॥ ४६॥ लोके चतुर्विहार्थेषु सुखशब्दः प्रयुज्यते । विषये वेदनाभावे विपाके मोक्ष एव च ॥४७॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः सुखितोऽस्मीति भाषते ॥४८॥