SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६० प्रथमगुच्छक। शेषकर्मफलापेक्षः शुद्धो बुद्धो निरामयः । सर्वज्ञः सर्वदर्शी च जिनो भवति केवली ॥ २५ ॥ कृत्स्नकर्मक्षयादूर्ध्व निर्वाणमधिगच्छति । यथा दग्धेन्धनो वहिनिरुपादानसन्ततिः ॥ २६ ॥ तदनन्तरमेवोर्ध्वमालोकान्तात्स गच्छति । पूर्वप्रयोगासङ्गत्वाद्वन्धच्छेदोर्ध्वगौरवैः ॥ २७ ॥ कुलालचक्रं डोलायामिषौ चापि यथेष्यते। पूर्वप्रयोगात्कर्मेह तथा सिद्धगतिः स्मृता ॥ २८ ॥ मृल्लेपसङ्गनिर्मोक्षाद्यथा दृष्टाऽप्स्वलाम्बुनः । कर्मबन्धविनिर्मोक्षात्तथा सिद्धगतिः स्मृता ॥ २९ ॥ एरण्डस्फुटदेलासु बन्धच्छेदाद्यथा गतिः। कर्मबन्धनविच्छेदाजीवस्यापि तथेष्यते ॥ ३०॥ यथास्तिर्यगूधं च लोष्टवाय्वग्निवीचयः। स्वभावतः प्रवर्तन्ते तथोर्ध्वगतिरात्मनाम् ॥ ३१ ॥ ऊर्ध्वगौरवधर्माणो जीवा इति जिनोत्तमैः। अधोगौरवधर्माणः पुद्गला इति चोदितम् ॥ ३२ ॥ अतस्तु गतिवैकृत्यं तेषां यदुपलभ्यते । कर्मणः प्रतिघाताच प्रयोगाश्च तदिष्यते ॥ ३३ ॥ अधस्तियक्तथोद्ध्वं च जीवानां कर्मजा गतिः । ऊर्ध्वमेव स्वभावेन भवति क्षीणकर्मणाम् ।। ३४ ॥ द्रव्यस्य कर्मणो यद्वदुस्पत्त्यारम्भवीचयः । समं तथैव सिद्धस्य गतिर्मोक्षे भवक्षयात् ॥ ३५ ॥ उत्पत्तिश्च विनाशश्च प्रकाशतमसोरिह। युगपद्भवतो यद्वत्तनिर्वाणकर्मणोः ॥ ३६ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy