SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसारः। अल्पक्षेत्रे तु सिद्धानामनन्तानां प्रसज्यते। परस्परोपरोधोऽपि नावगाहनशक्तितः ॥ १३॥ नानादीपप्रकाशेषु मूर्तिमत्स्वपि दृश्यते । न विरोधः प्रदेशेऽल्पे हन्तामूर्तेषु किं पुनः ॥ १४ ॥ आकारभावतोऽभावो न च तस्य प्रसज्यते। .. अनन्तरपरित्यक्तशरीराकारधारिणः ।। १५॥ शरोरानुविधायित्वे तत्तद्भावाद्विसर्पणम् । लोकाकाशप्रमाणस्य तावन्नाकारणत्वतः ॥ १६ ॥ शरावचन्द्रशालादिद्रव्यावष्टम्नयोगतः । अल्पो महांश्च दीपस्य प्रकाशो जायते यथा ॥ १७ ॥ संहारे च विसर्प च तथात्मानात्मयोगतः। तदभावात्तु मुक्तस्य न संहारविसर्पणे ॥ १८ ॥ कस्यचिच्छृङ्खलामोक्षे तत्रावस्थानदर्शनात् । अवस्थानं न मुक्तानामूर्ध्वव्रज्यात्मकत्वतः ॥ १९ ॥ सम्यक्त्वज्ञानचारित्रसंयुक्तस्यात्मनो भृशम् । निरास्रवत्वाच्छिन्नायां नवायां कर्मसन्ततौ ॥२०॥ पूर्वाजितं क्षपयतो यथोक्तैः क्षयहेतुभिः । संसारबीजं कात्स्न्ये न मोहनीयं प्रहीयते ॥ २१ ॥ ततोऽन्तरायज्ञानघ्नदर्शनघ्नान्यनन्तरम् । प्रहीयन्तेऽस्य युगपत्त्रीणि कर्माण्यशेषतः ॥ २२ ॥ गर्भसूच्यां विनष्टायां यथा बालो विनश्यति । तथा कर्मक्षयं याति मोहनीये क्षयं गते ॥ २३ ॥ ततः क्षीणचतुःकर्मा प्राप्तोऽथाख्यातसंयमम् । बीजबन्धननिर्मुक्तः स्नातकः परमेश्वरः ॥ २४ ॥ .
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy