________________
प्रथमगुच्छक ।
अनन्तकेवलज्योतिःप्रकाशितजगत्रयान् । प्रणितत्य जिनान्मू| मोक्षतत्त्वं प्राप्यते ॥१॥ अभावाद्वन्धहेतूनां बन्धनिर्जरया तथा । कृत्स्नकर्मप्रमोक्षो हि मोक्ष इत्यभिधीयते ॥२॥ बध्नाति कर्म सद्वेद्यं सयोगः केवली विदुः । योगाभावादयोगस्य कर्मबन्धो न विद्यते ॥ ३॥ ततो निर्जीर्णनिःशेषपूर्वसञ्चितकर्मणः । आत्मनः स्वात्मसंप्राप्तिर्मोक्षः सद्योऽवसीयते ॥ ४ ॥ तथोपशमकादीनां भव्यत्वस्य च संक्षयात् । मोक्षः सिद्धत्वसम्यक्त्वज्ञानदर्शनशालिनः ॥ ५॥ आद्यं भावान्तभावस्य कर्मबन्धनसन्ततः । अन्ताभावः प्रसज्येत दृष्टत्वादन्तबीजवत् ॥ ६॥ दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे न रोहति भवाङ्करः ॥ ७॥ अव्यवस्थानबन्धस्य गवादीनामिवात्मनः । कार्यकारणविच्छेदान्मिथ्यात्वादिपरिक्षये ॥८॥ जानतः पश्यतश्चोर्ध्व जगत्कारुण्यतः पुनः । तस्य बन्धप्रसङ्गेन सर्वानवपरिक्षयात् ॥९॥ अकस्माञ्च न बन्धः स्यादनिर्मोक्षप्रसङ्गतः। बन्धोपपत्तिस्तत्र स्यान्मुक्तिप्राप्तेरनन्तरम् ॥ १० ॥ पातोऽपि स्थानबन्धत्वात्तस्य नास्रवतत्त्वतः । आस्रवाद्या न पात्रस्य प्रपातोऽधो ध्रुवं भवेत् ॥ ११ ॥ तथापि गौरवाभावान्न पातोऽस्य प्रसज्यते। वृन्तसम्बन्धविच्छेदे पतत्याम्रफलं गुरु ॥ १२ ॥