SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसारः । श्रुतं यतो वितर्कः स्याद्यतः पूर्वार्थशिक्षितः । एकत्वं ध्यायति ध्यानं सवितर्क ततो हि तत् ॥ ४९ ॥ अर्थव्यञ्जनयोगानां वीचारः सङ्कमो मतः । वीचारस्य सद्भावादवीचारमिदं भवेत् ॥ ५० ॥ अवितर्क मवीचारं सूक्ष्मकायावलम्बनम् । सूक्ष्मक्रियं भवेद्ध्यानं सर्वभावगतं हि तत् ॥ ५१ ॥ काययोगेऽतिसूक्ष्मे तदर्त्तमानो हि केवली । शुक्लं ध्यायति संरोद्धुं काययोगं तथाविधम् ॥ ५२ ॥ अवितर्क मवीचारं ध्यानं व्युपरत क्रियम् । परं निरुद्धयोगं हि तच्छैलेस्यमपश्चिमम् ॥ ५३ ॥ तत्पुना रुद्धयोगः सन् कुर्वन् कायायासनम् । सर्वज्ञः परमं शुक्लं ध्यायत्यप्रतिपत्ति तत् ॥ ५४ ॥ सम्यग्दर्शनसम्पन्नः संयतासंयतस्ततः । संयतस्तु ततोऽनन्तानुबन्धिप्रवियोजकः ॥ ५५ ॥ दृग्मोहक्षपकस्तस्मात्तथोपशमकस्ततः । उपशान्तकषायोऽतस्ततस्तु क्षपको मतः ॥ ५६ ॥ ततः क्षीणकषायस्तु घातिमुक्तस्ततो जिनः । दशैते क्रमतः सन्त्यसङ्ख्येयगुणनिर्जराः ॥ ५७ ॥ पुलाको वकुशो द्वेधा कुशीलो द्विविधस्तथा । निर्ग्रन्थः स्नातकश्चैव निर्ग्रन्थाः पञ्च कीर्तिताः ॥५८॥ संयमश्रतलेश्याभिलिङ्गेन प्रतिसेवया । तीर्थस्थानोपपादैश्च विकल्पास्ते यथागमम् ॥ ५९ ॥ इति यो निर्जरातत्त्वं श्रद्धत्ते वेयुपेक्षते । शेषतत्त्वैः समं षड्भिः स हि निर्वाणभाग्भवेत् ॥ ६० ॥ इनि निर्जरातत्त्वम् । १५७
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy