SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५६ प्रथमगुच्छक । हिंसायामनृते स्तेये तथा विषयरक्षणे । रौद्र ं कषायसंयुक्तं ध्यानमुक्तं समासतः ॥ ३७ ॥ एकाग्रत्वेऽतिचिन्ताया निरोधो ध्यानमिष्यते । अन्तर्मुहर्त्ततस्तच्च भवत्युत्तमसंहतेः ॥ ३८ ॥ आज्ञापायं विपाकानां विवेकाय च संस्थितेः । मनसः प्रणिधानं यद्धर्मध्यानं तदुच्यते ॥ ३९ ॥ प्रमाणीकृत्य सार्वशीमाज्ञामर्थावधारणम् । गहनानां पदार्थानामाज्ञाविचयमुच्यते ॥ ४० ॥ कथं मार्ग प्रपद्येरन्नमी उन्मार्गतो जनाः । अपायमिति या चिन्ता तद्वायविचारणम् ॥ ४१ ॥ द्रव्यादिप्रत्ययं कर्म फलानुभवनं प्रति । भवति प्रणिधानं यद्विपाकविचयस्तु सः ॥ ४२ ॥ लोकसंस्थानपर्याय स्वभावस्य विचारणम् । लोकानुयोगमार्गेण संस्थानविचयो भवेत् ॥ ४३ ॥ शुक् पृथक्त्वमाद्यं स्यादेकत्वं तु द्वितीयकम् । सूक्ष्मक्रियं तृतीयं तु तुर्य व्युपरतक्रियम् ॥ ४४ ॥ द्रव्याण्यनेकभेदानि योगैर्ध्यायति यत्त्रिभिः । शान्तमाहस्ततो ह्येतत्पृथक्त्वमिति कीर्तितम् ॥ ४५ ॥ श्रुतं यतो वितर्कः स्याद्यतः पूर्वार्थशिक्षितः । पृथक्त्वं ध्यायति ध्यानं सवितर्क ततो हि तत् ॥ ४६ ॥ अर्थव्यञ्जनयोगानां वीचारः सङ्क्रमो मतः । वीचारस्य हि सद्भावात् सवीचारमिदं भवेत् ॥ ४७ ॥ द्रव्यमेकं तथैकेन योगेनान्यतरेण च । ध्यायति क्षीणमोहो यत्तदेकत्वमिदं भवेत् ॥ ४८ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy