________________
तत्त्वार्थसारः।
१५५ अन्नपानौषधीनां तु विवेकः स्थाद्विवेचनम् ।। पुनर्दीक्षाप्रदानं यत्सा घुपस्थापना भवेत् ॥ २५ ॥ परिहारस्तु मासादिविभागेन विवर्जनम् । प्रव्रज्याहापनं छेदो मासपक्षदिनादिना ॥ २६ ॥ सूर्योपाध्यायसाधूनां शैक्ष्यग्लानतपस्विनाम् । कुलसङ्घमनोज्ञानां वैयावृत्यं गणस्य च ॥ २७ ॥ व्याध्याद्युपनिपातेऽपि तेषां सम्यग विधीयते । स्वशक्त्या यत्प्रतीकारो वैयावृत्यं तदुच्यते ॥२८॥ बाह्यान्तरोपधित्यागाद् व्युत्सर्गो द्विविधो भवेत् । क्षेत्रादिरुपधिर्बाह्यः क्रोधादिरपरः पुनः॥ २९ ॥ .. दर्शनज्ञानविनयौ चारित्रविनयोऽपि च । तथोपचारविनयो विनयः स्याञ्चतुर्विधः ॥ ३०॥ यत्र निःशङ्कितत्वादिलक्षणोपेतता भवेत् । श्रद्धाने सप्ततत्त्वानां सम्यक्त्वविनयः स हि ॥ ३१ ॥ ज्ञानस्य ग्रहगाभ्यासमरगादीनि कुर्वतः। वहुमानादिभिः सार्द्ध ज्ञानस्य विनयो भवेत् ॥ ३२ ॥ : दर्शनज्ञानयुक्तस्य या समीहितचित्तता। चारित्रं प्रति जायेत चारित्रविनयो हि सः॥३३॥ अभ्युत्थानानुगमनं वन्दनादीनि कुर्वतः। आचार्यादिषु पूज्येषु विनयो ह्यौपचारिकः ॥ ३४॥ आर्त रौद्रं च धयं च शुक्लं चेति चतुर्विधम् । ध्यानमुक्तं परं तत्र तपोऽङ्गमुभयं भवेत् ॥ ३५ ॥ प्रियभ्रंशेऽप्रियप्राप्तौ निदाने वेदनोदये । आर्त कषायसंयुक्तं ध्यानमुक्तं समासतः ॥ ३६॥ ,