SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रथमगुच्छक। अनेकप्रतिमास्थानं मौनं शीतसहिष्णुता । आतपस्थानमित्यादिकायक्लेशो मतं तपः ॥ १३ ॥ जन्तुपीडाविमुक्तायां वसतौ शयनासनम् । सेवमानस्य विज्ञेयं विविक्तशयनासनम् ॥ १४ ॥ स्वाध्यायः शोधनं चैव वैयावृत्यं तथैव च । व्युत्सगों विनयश्चैव ध्यानमाभ्यन्तरं तपः ॥ १५ ॥ वाचनापृच्छनाम्नायस्तथा धर्मस्य देशना । अनुप्रेक्षा च निर्दिष्टः स्वाध्यायः पञ्चधा जिनः ॥ १६ ॥ वाचना सा परिज्ञेया यत्याने प्रतिपादनम् । ग्रन्थस्य वाथ पद्यस्य तत्त्वार्थस्योभयस्य वा ॥ १७ ॥ तत्संशयापनोदाय तनिश्चयबलाय वा। परं प्रत्यनुयोगाय प्रच्छनां तद्विदुर्जिनाः ॥ १८ ॥ आम्नायः कथ्यते घोषो विशुद्धं परिवर्तनम्। कथाधर्माद्यनुष्ठानं विज्ञेया धर्मदेशना ॥ १९ ॥ साधोरधिगतार्थस्य योऽभ्यासो मनसा भवेत् । अनुप्रेक्षेति निर्दिष्टः स्वाध्यायः स जिनेशिभिः ॥२०॥ आलोचनं प्रतिक्रान्तिस्तथा तदुभयं तपः। व्युत्सर्गश्च विवेकश्च तथोपस्थापना मता ॥ २१ ॥ परिहारस्तथाच्छेदः प्रायश्चित्तभिदा नव । आलोचनं प्रमादस्य गुरवे विनिवेदनम् ॥ २२ ॥ अभिव्यक्तप्रतीकारं मिथ्या मे दुष्कृतादिभिः । प्रतिक्रान्तिस्तदुभयं संसर्गे सति शोधनात् ॥ २३ ॥ भवेत्तपोऽवमोदर्य वृत्तिसङ्ख्यादिलक्षणम् । कायोत्सर्गादिकरणं व्युत्सर्गः परिभाषितः ॥२४॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy