________________
तत्त्वार्थसार।
अनन्तकेवलज्योतिःप्रकाशितजगत्रयान् । प्रणिपत्य जिनान् मूर्ना निर्जरातत्त्वमुच्यते ॥१॥ उपात्तकर्मणः पातो निर्जरा द्विविधा च सा। आद्या विपाकजा तत्र द्वितीया चाविपाकजा ॥२॥ अनादिबन्धनोपाधिविपाकवशवर्तिनः ।। कारब्धफलं यत्र क्षीयते सा विपाकजा ॥३॥ अनुदीर्ण तपःशक्त्या यत्रोदीर्णोदयावलीम् । प्रवेश्य वेद्यते कर्म सा भवत्यविपाकजा ॥४॥ यथाम्रपनसादीनि परिपाकमुपायतः । अकालेऽपि प्रपद्यन्ते तथा कर्माणि देहिनाम् ॥ ५॥ अनुभूय क्रमात्कर्मविपाकप्राप्तमुज्झताम् । प्रथमास्त्येव सर्वेषां द्वितीया तु तपस्विनाम् ॥ ६॥ तपस्तु द्विविधं प्रोक्तं बाह्याभ्यन्तरभेदतः। प्रत्येकं षड्विधं तच्च सर्व द्वादशधा भवेत् ॥ ७॥ बाह्यं तत्रावमौदर्यमुपवासो रसोज्झनम् । वृत्तिसङ्ख्या वपुःक्लेशो विविक्तशयनासनम् ॥ ८॥ . सर्वं तदवमोदर्यमाहारं यत्र हापयेत् । एकद्वित्र्यादिभिर्मासैराग्रासं समयान्मुनिः ॥९॥ . मोक्षार्थ त्यज्यते यस्मिन्नाहारोऽपि चतुर्विधः। उपवासः स तद्भेदाः सन्ति षष्ठाष्टमादयः ॥ १०॥ .. रसत्यागो भवेत्तलक्षीरेक्षुदधिसर्पिषाम् । एकद्वित्रीणि चत्वारि त्यजतस्तानि पञ्चधा ॥ ११ ॥ एकवस्तुदशाङ्गारपानमुद्गादिगोचरः । सङ्कल्पः क्रियते यत्र वृत्तिसङ्ख्या हि तत्तपः ॥ १२ ॥