________________
१५२
प्रथमगुच्छक।
मोक्षारोहणनिश्रेणिः कल्याणानां परम्परा। अहो कष्टं भवाम्भोधौ बोधिर्जीवस्य दुर्लभा ॥४१॥ क्षान्त्यादिलक्षणो धर्मः स्वाख्यातो जिनपुङ्गवैः। अयमालम्बनस्तम्भो भवाम्भोधौ निमजताम् ॥ ४२ ॥ एवं भावयतः साधोर्भवेद्धर्ममहोद्यमः।। ततो हि निःप्रमादस्य महान् भवति संवरः ॥४३॥ वृत्तं सामायिकं ज्ञेयं छेदोपस्थापनं तथा। परिहारं च सूक्ष्मं च यथाख्यातं च पञ्चमम् ॥ ४४ ॥ प्रत्याख्यानमभेदेन सर्वसावद्यकर्मणः । नित्यं नियतकालं वा वृत्तं सामायिकं स्मृतम् ॥ ४५ ॥ यत्र हिंसादिभेदेन त्यागः सावद्यकर्मणः । व्रतलोपे विशुद्धिर्वा छेदोपस्थापनं हि तत् ॥ ४६॥ विशिष्टपरिहारेण प्राणिघातस्य यत्र हि । शुद्धिर्भवति चारित्रं परिहारविशुद्धि तत् ॥ ४७॥ कषायेषु प्रशान्तेषु प्रक्षीणेष्वखिलेषु वा। स्यात्सूक्ष्मसाम्परायाख्यं सूक्ष्मलोभवतो यतेः ॥ ४८॥ क्षयाचारित्रमोहस्य कात्स्न्येनोपशमात्तथा। यथाख्यातमथाख्यातं चारित्रं पञ्चमं जिनैः ॥ ४९ ॥ सम्यक्चारित्रमित्येतद्यथास्वं चरतो यतेः । सर्वास्रवनिरोधः स्यात्ततो भवति संवरः ॥ ५० ॥ तपस्तु वक्ष्यते तद्धि सम्यग्भावयतो यतेः। स्नेहक्षयात्तथा योगरोधाद्भवति संवरः ॥ ५१ ॥ इति संवरतत्त्वं यः श्रद्धत्ते वेत्त्युपेक्षते। शेषतत्त्वैः समं षड्भिः स हि निर्वाणभाग्भवेत् ॥ ५२ ॥
इति संवरतत्त्ववर्णनम् ॥ ६॥ .. .