________________
तत्त्वार्थसारः।
१५१ अनित्यं शरणाभावो भवश्चकत्वमन्यता। अशौचमास्रवश्चैव संवरो निर्जरा तथा ॥ २९ ॥ लोको दुर्लभता बोधिः स्वाख्यातत्वं वृषस्य च । अनुचिन्तनमेतेषामनुप्रेक्षाः प्रकीर्तिताः ॥ ३०॥ क्रोडीकरोति प्रथमं जातजन्तुमनित्यता। धात्री च जननी पश्चाद्धिग्मानुष्यमसारकम् ॥ ३१॥ उपघ्रातस्य घोरेण मृत्युव्याघ्रण देहिनः । देवा अपि न जायन्ते शरणं किमु मानवाः ॥ ३२॥ चतुर्गतिघटीयन्त्रे सनिवेश्य घटीमिव । आत्मानं भ्रमयत्येष हा कष्टं कर्मकक्षिकः ॥ ३३ ॥ कस्थाऽपत्यं पिता कस्य कस्याम्बा कस्य गेहिनी। एक एव भवाम्भोधौ जीवो भ्रमति दुस्तरे ॥ ३४ ॥ अन्यः सचेतनो जीवो वपुरन्यदचेतनम् । हा तथापि न मन्यन्ते नानात्वमनयोजनाः ॥ ३५ ॥ नानाकृमिशताकीर्णे दुर्गन्धे मलपूरिते। आत्मनश्च परेषां च व शुचित्वं शरीरके ॥ ३६॥ कर्माम्भोभिः प्रपूर्णोऽसौ योगरन्ध्रसमाहृतः। हा दुरन्ते भवाम्भोधौ जीवो मजति पोतवत् ॥ ३७॥ योगद्वाराणि रुन्धन्तः कपाटैरिव गुप्तिभिः । आपतद्भिर्न बाध्यन्ते धन्याः कर्मभिरुत्कटः ॥ ३८ ॥ गाढोपजीर्यते यद्वदामदोषो विसर्पणात् । तद्वनिर्जीर्यते कर्म तपसा पूर्वसञ्चितम् ॥ ३९ ॥ नित्याध्वगेन जीवेन भ्रमता लोकवर्त्मनि । वसतिस्थानवत्कानि कुलान्यध्युषितानि न ॥४०॥