SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५० प्रथमगुच्छक । धर्मोपबृंहणार्थं यत्साधु सत्यं तदुच्यते ॥ १७ ॥ ( षट्पदम् ) इन्द्रियार्थेषु वैराग्यं प्राणिनां वधवर्जनम् । समिती वर्तमानस्य मुनेर्भवति संयमः ॥ १८ ॥ परं कर्मक्षयार्थं यत्तप्यते तत्तपः स्मृतम् । त्यागस्तु धर्मशास्त्रादिविश्राणनमुदाहृतम् ॥ १९ ॥ ममेदमित्युपात्तेषु शरीरादिषु केषुचित् । अभिसन्धिनिवृत्तिर्या तदाकिञ्चन्यमुच्यते ॥ २० ॥ स्त्रीसंसक्तस्य शय्यादेरनुभूताङ्गनास्मृतेः । तत्कथायाः श्रुतेश्च स्याद्ब्रह्मचर्य हि वर्जनात् ॥ २१ ॥ इति प्रवर्तमानस्य धर्मे भवति संवरः । तद्विपक्षनिमित्तस्य कर्मणो नास्रवे सति ॥ २२ ॥ क्षुत्पिपासा च शीतोष्णदं शमत्कुणनग्नते । अरतिः स्त्री च चर्या च निषद्या शयनं तथा ॥ २३ ॥ आक्रोशश्च वधश्चैव याचनालाभयोर्द्वयम् । रोगश्व तृणसंस्पर्शस्तथा च मलधारणम् ॥ २४ ॥ असत्कारपुरस्कारं प्रज्ञाज्ञानमदर्शनम् । इति द्वाविंशतिः सम्यक् सोढव्याः स्युः परीषहाः ॥ २५ ॥ संवरो हि भवत्येतानसंक्लिष्टेन चेतसा । सहमानस्य रागादिनिमित्तास्रवरोधतः ॥ २६ ॥ तपो हि निर्जराहेतुरुत्तरत्र प्रचक्ष्यते । संवरस्यापि विद्वांसो विदुस्तन्मुख्यकारणम् ॥ २७ ॥ अनेककार्यकारित्वं न चैकस्य विरुद्धयते । दाहपाकादिहेतुत्वं दृश्यते हि विभावसोः ॥ २८ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy