SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसारः। ईर्याभाषणादाननिक्षेपोत्सर्गभेदतः । पञ्चगुप्तावशक्तस्य साधोः समितयः स्मृताः ॥ ६॥ मार्गोद्योतोपयोगानामालम्ब्यस्य च शुद्धिभिः । , गच्छतः सूत्रमार्गेण स्मृतेर्या समितिर्यतेः॥७॥ व्यलीकादिविनिर्मुक्तं सत्यासत्यामृषाद्वयम् । वदतः सूत्रमार्गेण भाषासमितिरिष्यते ॥ ८॥ पिण्ड तथोपधि शय्यामुद्गमोत्पादनादिना। साधोः शोधयतः शुद्धा ह्येषणा समितिर्भवेत् ॥ ९॥ सहसादृष्टदुभ्रष्टाप्रत्यवेक्षणदूषणम् । त्यजतः समितिज्ञेयादाननिक्षेपगोचरा ॥ १० ॥ समितिर्दर्शितानेन प्रतिष्ठापनगोचरा। त्याज्यं मूत्रादिकं द्रव्यं स्थण्डिले त्यजतो यतेः ॥ ११॥ इत्थं प्रवर्तमानस्य न कर्माण्यास्रवन्ति हि। असंयमनिमित्तानि ततो भवति संवरः ॥ १२॥ क्षमामृदृजुते शौचं स सत्यं संयमस्तपः । त्यागोऽकिञ्चनता ब्रह्म धर्मो दशविधः स्मृतः ॥ १३ ॥ क्रोधोत्पत्तिनिमित्तानामत्यन्तं सति सम्भवे । आक्रोशताडनादीनां कालुष्योपरमः क्षमा ॥ १४ ॥ अभावो योऽभिमानस्य परैः परिभवे कृते । जात्यादीनामनावेशान् मदानां मार्दवं हि तत् ॥ १५ ॥ वामनःकाययोगानामवक्रत्वं तदार्जवम् । परिभोगोपभोगत्वं जीवितेन्द्रियभेदतः ॥ १६ ॥ चतुर्विधस्य लोभस्य निवृत्तिः शौचमुच्यते । शानचारित्रशिक्षादौ स धर्मः सुनिगद्यते ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy