________________
१४८
प्रथमगुच्छक।
सर्वकर्मप्रकृत्यान् सर्वेष्वपि भवेषु यत् । द्विविधान् पुद्गलस्कन्धान् सूक्ष्मान् योगविशेषतः ॥ ४९ ॥ सर्वेष्वात्मप्रदेशेष्वनन्तानन्तप्रदेशकान् । आत्मसात्कुरुते जीवः सः प्रदेशोऽभिधीयते ॥ ५० ॥ शुभाशुभोपयोगाख्यनिमित्तो द्विविधस्तथा। पुण्यपापतया द्वेधा सर्व कर्म प्रभिद्यते ॥ ५१ ॥ उच्चैर्गोवं शुभायूंषि सद्वेद्यं शुभनाम च । द्विचत्वारिंशदित्येवं पुण्यप्रकृतयः स्मृताः ।। ५२ ॥ नीचैर्गोत्रमसद्वेद्यं श्वभ्रायुर्नाम चाशुभम्। यशीतिर्घातिभिः सार्द्ध पापप्रकृतयः स्मृताः ॥ ५३ ॥ इत्येतद्वन्धतत्त्वं यः श्रद्धत्ते वेत्युपेक्षते।। शेषतत्त्वैः समं षड्भिः स हि निर्वाणभाग्भवेत् ॥ ५४॥
. इति बन्धतत्त्ववर्णनम् ॥ ५ ॥
अनन्तकेवलज्योति प्रकाशितजगत्त्रयान् । प्रणिपत्य जिनान् मूर्ना संवरः संप्रचक्ष्यते ॥१॥ यथोक्तानां हि हेतूनामात्मनः सति सम्भवे । आस्रवस्य निरोधो यः स जिनैः संवरः स्मृतः ॥२॥ गुप्तिः समितयो धर्मः परीषहजयस्तपः । अनुप्रेक्षाश्च चारित्रं सन्ति संवरहेतवः ॥ ३ ॥ योगानां निग्रहः सम्यग्गुप्तिरित्यभिधीयते । मनोगुप्तिर्वचोगुप्तिः कायगुप्तिश्च सा त्रिधा ॥४॥ तत्र प्रवर्तमानस्य योगानां निग्रहे सति । तन्निमित्तास्रवाभावात्सद्यो भवति संवरः ॥५॥