SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसारः । श्वभ्रादिगतिभेदात्स्यादानुपूर्वीचतुष्टयम्। उपघातः परघातस्तथा गुरुलघुर्भवेत् ॥ ३७॥ उच्छ्वास आतपोद्योती शस्ताशस्ते नभोगती। प्रत्येकासपर्याप्तबादराणि शुभं स्थिरम् ॥ ३८ ॥ सुस्वरं सुभगादेयं यशःकीर्तिः सहेतरैः। तथा तीर्थकरत्वं च नामप्रकृतयः स्मृताः ॥ ३९ ॥ गोत्रकर्म द्विधा शेयमुच्चनीचविभेदतः।। स्यादानलाभवीर्याणां परिभोगोपभोगयोः ॥ ४ ॥ अन्तरायस्य वैचित्र्यादन्तरायोऽपि पञ्चधा । द्वे त्यक्त्वा मोहनीयस्य नाम्नः षड्विंशतिस्तथा ॥ ४१ ॥ सर्वेषां कर्मणां शेषा बन्धप्रकृतयः स्मृताः। अबन्धा मिश्रसम्यक्त्वे बन्धसङ्घातयोर्दश ॥ ४२ ॥ स्पर्श सप्त तथैका च गन्धेष्टौ रसवर्णयोः। वेद्यान्तराययोर्ज्ञानदृगावरणयोस्तथा ॥ ४३ ॥ कोटीकोट्यः स्मृतास्त्रिंशत्सागराणां परा स्थितिः । मोहस्य सप्ततिस्ताः स्युर्विंशतिर्नामगोत्रयोः ॥ ४४ ॥ आयुषस्तु त्रयस्त्रिंशत्सागराणां परा स्थितिः। मुहूर्ता द्वादश ज्ञेया वेद्यष्टौ नामगोत्रयोः॥ ४५ ॥ स्थितिरन्तर्मुहूर्तस्तु जघन्या शेषकर्मसु । विपाकः प्रागुपात्तानां यः शुभाशुभकर्मणाम् ॥ ४६॥ असावनुभवो शेयो यथा नाम भवेच्च सः। घनाङ्गलस्थासङ्ख्येयभागक्षेत्रावगाहिनः ॥४७॥ एकद्वित्र्याद्यसङ्ख्येयसमयास्थितिकांस्तथा। उष्णरूनहिमस्निग्धान्सर्ववर्णरसान्वितान् ॥४८॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy