SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४६ प्रथमगुच्छक। चतुर्णा चक्षुरादीनां दर्शनानां निरोधतः । दर्शनावरगाभिख्यं प्रकृतीनां चतुष्टयम् ॥ २५॥ निद्रानिद्रा तथा निद्रा प्रचलाप्रचला तथा। प्रचला स्त्यानगृद्धिश्व दृग्रोधस्य नव स्मृताः ॥ २६ ॥ द्विधा वेद्यमसद्वेद्यं सद्वेद्यं च प्रकीर्तितम् । प्रयः सम्यक्त्वमिथ्यात्वसम्यगमिथ्यात्वभेदतः ॥ २७ ॥ क्रोधो मानस्तथा माया लोभोऽनन्तानुबन्धिनः। तथा त एव चाप्रत्याख्यानावरणसंशिकाः ॥ २८ ॥ प्रत्याख्यानरुधश्चैव तथा सज्वलनाभिधाः।। हास्यं रत्यरती शोको भयं सह जुगुप्सया ॥ २९ ॥ नारीपुंषण्ढवेदाश्च मोहप्रकृतयः स्मृताः। श्वाभ्रतिर्यग्नदेवायुर्भेदादायुश्चतुर्विधम् ॥ ३० ॥ चतस्रो गतयः पञ्च जातयः कायपञ्चकम् । अङ्गोपाङ्गत्रयं चैव निर्माणप्रकृतिस्तथा ॥ ३१ ॥ पञ्चधा बन्धनं चैव सङ्घातोऽपि च पञ्चधा। समादिचतुरस्रं तु न्यग्रोधं सातिकुब्जकम् ॥ ३२ ॥ वामनं हुण्डसंशं च संस्थानमपि षड्विधम् । स्याद्वज्रर्षभनाराचं वज्रनाराचमेव च ॥ ३३ ॥ नाराचमर्द्धनाराचं कीलकं च ततः परम् । तथा संहननं षष्ठमसंप्राप्तामृपाटिका ।। ३४ ॥ अष्टधा स्पर्शनामापि कर्कशं मृदु लघ्वपि । गुरु स्निग्धं तथा रूक्षं शीतमुष्णं तथैव च ॥ ३५ ॥ मधुरोऽम्लः कटुस्तिक्तः कषायः पञ्चधा रसः। वर्णाः शुक्लादयः पञ्च द्वौ गन्धौ सुरभीतरौ॥३६॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy