SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ तत्वार्थसारः । १५ ॥ यज्जीवः सकषायत्वात्कर्मणो योग्यपुद्गलान् । आदते सर्वतो योगात्स बन्धः कथितो जिनैः ॥ १३ ॥ न कर्मात्मगुणोऽमूर्तेस्तस्य बन्धाप्रसिद्धितः । अनुग्रहोपघातौ हि नामूर्त्तेः कर्त्तुमर्हति ॥ १४ ॥ औदारिकादिकार्याणां कारणं कर्म मूर्त्तिमत् । नामूर्त्तेन मूर्त्तानामारम्भः क्वापि दृश्यते ॥ न च बन्धाप्रसिद्धिः स्यान्मूर्त्तेः कर्मभिरात्मनः । अमूर्त्तेरित्यनेकान्तात्तस्य मूर्त्तित्वसिद्धितः ॥ १६ ॥ अनादिनित्यसम्बन्धात्सह कर्मभिरात्मनः । अमूर्तस्यापि सत्यैक्ये मूर्तत्वमवसीयते ॥ १७ ॥ बन्धं प्रति भवत्यैक्यमन्योन्यानुप्रवेशतः । युगपद्वावितः स्वर्णरौप्यवज्जीवकर्मणोः ॥ १८ ॥ तथा च मूर्त्तिमानात्मा सुराभिभवदर्शनात् । नामूर्त्तस्य नभसो मदिरा मदकारिणी ॥ १९ ॥ गुणस्य गुणिनश्चैव न च बन्धः प्रसज्यते । निर्मुक्तस्य गुणत्यागे वस्तुत्वानुपपतितः ॥ २० ॥ प्रकृतिस्थितिबन्धौ द्वौ बन्धश्वानुभवाभिधः । तथा प्रदेशबन्धश्च ज्ञेयो बन्धश्चतुर्विधः ॥ २१ ॥ ज्ञानदर्शनयो रोधौ वेद्यं मोहायुषी तथा । नामगोत्रान्तरायाश्च च मूलप्रकृतयः स्मृताः ॥ २२ ॥ अन्याः पञ्च नव द्वे च तथाष्टाविंशतिः क्रमात् । तस्रश्च त्रिसंयुक्ता नवतिर्द्वे च पञ्च च ॥ २३ ॥ मतिः श्रुतावधी चैव मनःपर्यय केवले । एषामावृत्तयो ज्ञानरोधप्रकृतयः स्मताः ॥ २४ ॥ १० १४५
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy