________________
ફ્૪૪
प्रथम गुच्छक ।
अनन्तकेवलज्योतिःप्रकाशित जगत्त्रयान् । प्रणिपत्य जिनान्मूर्ध्ना बन्धतत्वं प्ररूप्यते ॥ १ ॥ बन्धस्य हेतवः पञ्च स्युमिध्यात्वमसंयमः । प्रमादश्च कषायश्च योगश्चेति जिनोदिताः ॥ २ ॥ ऐकान्तिकं सांशयिकं विपरीतं तथैव च । आज्ञानिकं च मिथ्यात्वं तथा वैनयिकं भवेत् ॥ ३ ॥ यत्राभिसन्निवेशः स्यादत्यन्तं धर्मिधर्मयोः । इदमेवेत्थमेवेति तदैकान्तिकमुच्यते ॥ ४ ॥ किं वा भवेन्न वा जैनो धर्मोऽहिंसादिलक्षणः । इति यत्र मतिद्वैधं भवेत्सांशयिकं हि तत् ॥ ५ ॥ सग्रन्थोऽपि च निर्ग्रन्थो ग्रासाहारी च केवली । रुचिरेवंविधा यत्र विपरीतं हि तत्स्मृतम् ॥ ६ ॥ हिताहितविवेकस्य यत्रात्यन्तमदर्शनम् ।
यथा पशुवध धर्मस्तदाज्ञानिकमुच्यते ॥ ७ ॥ सर्वेषामपि देवानां समयानां तथैव च । यत्र स्यात्समदर्शित्वं ज्ञेयं वैनयिकं हि तत् ॥ ८ ॥ षड्जीव काय पञ्चाक्षमनोविषयभेदतः । कथितो द्वादशविधः सर्वविद्भिरसंयमः ॥ ९ ॥ शुके तथा धर्मे क्षान्त्यादिदशलक्षणे । योऽनुत्साहः स सर्वज्ञैः प्रमादः परिकीर्त्तितः ॥ १० ॥ षोडशैव कषायाः स्युनकषाया नवेरिताः । ईषद्भेदो न भेदोऽत्र कषायाः पञ्चविंशतिः ॥ ११ ॥ चत्वारो हि मनोयोगा चाग्योगानां चतुष्टयम् । पञ्च द्वौ च वपुर्योगा योगाः पञ्चदशोदिताः ॥ १२ ॥