SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसारः । संस्तरोत्सर्जनादानमसंदृष्टापमार्जितम् । अनादरोऽनुपस्थानं स्मरणस्येति पञ्च ते ॥ ९५ ॥ सचित्तस्तेन सम्बन्धस्तेनसम्मिश्रितस्तथा । दुःपक्वोऽभिषवश्चैवमाहाराः पञ्च पञ्च ते ॥ ९६ ॥ कालव्यतिक्रमोऽन्यस्य व्यपदेशोऽथ मत्सरः । सचित्ते स्थापनं तेन पिधानं चेति पञ्च ते ॥ ९७ ॥ पञ्चत्वजीविताशंसे तथा मित्रानुरञ्जनम् । सुखानुबन्धनं चैव निदानं चेति पञ्च ते ॥ ९८ ॥ परात्मनोरनुग्राही धर्म वृद्धिकरत्वतः । १४३ स्वस्योत्सर्जन मिच्छन्ति दानं नाम गृहिव्रतम् ॥ ९९ ॥ विधिद्रव्यविशेषाभ्यां दातृपात्रविशेषतः । ज्ञेयो दानविशेषस्तु पुण्यास्त्रवविशेषकृत् ॥ १०० ॥ हिंसानृतचुराब्रह्मसङ्गसंन्यासलक्षणम् । व्रतं पुण्यास्त्रवोत्थानं भावेनेति प्रपञ्चितम् ॥ १०१ ॥ हिंसानृतचुराब्रह्मसङ्गसंन्यासलक्षणम् । चिन्त्यं पापात्रवोत्थानं भावेन स्वयमवतम् ॥ १०२ ॥ हेतुकार्यविशेषाभ्यां विशेषः पुण्यपापयोः । हेतू शुभाशुभ भाव कार्ये चैव सुखासुखे ॥ १०३ ॥ संसारकारणत्वस्य द्वयोरप्यविशेषतः । न नाम. निश्चये नास्ति विशेषः पुण्यपापयोः ॥ १०४ ॥ इतीहास्रवतत्त्वं यः श्रद्धत्ते वेत्युपेक्षते । शेषतत्त्वः समं षड्भिः स हि निर्वाणभाग्भवेत् ॥ १०५ ॥ इत्यास्त्रवतत्त्ववणनम् ॥ ४ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy