SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ वृहरस्वयम्भूस्तोत्रम् । यथै कशः कारकमर्थसिद्धये समीक्ष्य शेषं स्वसहायकारकम् । तथैव सामान्य विशेषमातृका नयास्तवेष्टा गुणमुख्यकल्पतः।६। परस्परेक्षान्वयभेदलिङ्गतः प्रसिद्धसामान्यविशेषयोस्तव । समग्रतास्ति स्वपरावभासकं यथा प्रमाणं भुविवुद्धिलक्षणम्।६३१ विशेषवाच्यस्य विशेषणं वचो यतो विशेष्यं विनियम्यते च पत्। तयोश्वसामान्य मतिप्रसज्यते विधतितात्स्यादिति ते न्यवर्जनम् ६४ नयास्तव स्यात्पदसत्य लाञ्छिता रसोपविद्धा इव लोहधातवः। भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमाः प्रणिता हितैपिणः॥६५॥ इति विमलजिनस्तोत्रम् अनन्तदोषाशयविग्रहरे ग्रहो विषङ्गवान्मोहमयश्चिरं हृदि । यता जितस्तत्वरुचीप्रसोदतात्वया ततोभूभगवाननन्तजित् ।६६। कषायनाम्नां द्विषतां प्रमाथिनामशेषयन्नाम भवानशेषवित् । विशोषणं मन्मथदुर्मदामयं समाधिभैषज्यगुणैर्व्यलीनयन् ॥६७॥ परिश्रमाम्बुभयवीचिमालिनी त्वया स्वतृष्णासरिदार्य शोषिता। असंगवर्मार्कगभस्तितेजसा परं ततो निवृतिधाम तावकम् ।। सुहृत्वयि श्रीसुभगत्वमश्नुते द्विषन् त्वयि प्रत्ययवत्प्रलीयते । भवानुदासीनतमस्तयोरपि प्रभो परं चित्रमिदं तवेहितम्॥६६॥ त्वमीहशस्तादृश इत्ययं मम प्रलापलेशोल्पमतेर्महामुने । अशेषमाहात्म्यमनीरयन्नपि शिवाय संस्पर्श इवामृताम्बुधेः॥७॥ इत्यनन्तजिनम्तोत्रम्. धर्मतीर्थमनघं प्रवर्तयन् धर्म इत्यनुमतः सतां भवान् । करकक्षमदहत्तपोऽग्निभिः शर्म शाश्वतमवाप शङ्करः ॥ ७१ ॥ देवमानवनिकायलत्तमै रेजिषे परिवृतो वृतो बुधैः । वारकापरिवृतोऽतिपुष्कलो व्योमनीव शशलान्छनोमलः ॥७२॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy