________________
तत्वार्थसारः ।
हेतुत्वाद्दुःखहेतूनामिति तत्त्वपरायणः । हिंसादीन्यथवा नित्यं दुःखमेवेति भावयेत् ॥ ७१ ॥ सत्त्वेषु भावयेन्मैत्रीं मुदितां गुणशालिषु । क्लिश्यमानेषु करुणामुपेक्षां वामदृष्टिषु ॥ ७२ ॥ संवेगसिद्धये लोकस्वभावं सुष्ठु भावयेत् । वैराग्यार्थं शरीरस्य स्वभावं चापि चिन्तयेत् ॥ ७३ ॥ द्रव्यभावस्वभावानां प्राणानां व्यपरोपणम् । प्रमत्तयोगतो यत्स्यात् सा हिंसा संप्रकीर्त्तिता ॥ ७४ ॥ प्रमत्तयोगतो यत्स्यादसदर्थाभिभाषणम् ।
समस्तमपि विज्ञेयमनृतं तत्समासतः ॥ ७५ ॥ प्रमत्तयोगतो यत्स्याददत्तार्थ परिग्रहः । प्रत्येयं तत्खलु स्तेयं सर्वे संक्षेपयोगतः ॥ ॥ ७६ ॥ मैथुनं मदनोद्रेकादब्रह्मपरिकीर्त्तितम् ।
ममेदमिति संकल्परूपा मूर्च्छा परिग्रहः ॥ ७७ ॥ मायानिदानमिथ्यात्वशल्याभावविशेषतः । आहिंसादिवतोपेतो व्रतीति व्यपदिश्यते ॥ ७८ ॥ अनगारस्तथाऽगारी स द्विधा परिकथ्यते । महाव्रतोऽनगारः स्यादगारी स्यादणुव्रतः ॥ ७९ ॥ दिग्देशाऽनर्थदण्डेभ्यो विरतिः समता तथा । सप्रोषधोपवासश्व संख्याभोगोपभोगयोः ॥ ८० ॥ अतिथेः संविभागश्च व्रतानीमानि गेहिनः । अपराण्यपि सप्त स्युरित्यमी द्वादश व्रताः ॥ ८१ ॥ अपरं च व्रतं तेषामपश्चिममिहेष्यते । अन्वे सल्लेखनादेव्याः प्रीत्या संसेवनं च यत् ॥ ८२ ॥