SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक। प्रतात्किलास्त्रवेत्पुण्यं पापं तु पुनरवतात् । सङ्किप्यास्रवमित्येवं चिन्त्यतेऽतो व्रताव्रतम् ॥ ५९॥ हिंसाया अनृताच्चैव स्तेयादब्रह्मतस्तथा । परिग्रहाच विरतिः कथयन्ति व्रतं जिनाः॥६॥ कात्स्न्येन विरतिः पुंसांहिंसादिभ्यो महाव्रतम् । एकदेशेन विरतिर्विजानीयादणुव्रतम् ॥ ६१ ॥ व्रतानां स्थैर्यसिद्ध्यर्थं पञ्च पञ्च प्रतिव्रतम् । भावनाः सम्प्रतीयन्ते मुनीनां भावितात्मनाम् ॥ ६२ ॥ वचोगुप्तिममोगुप्तिरीर्यासमितिरेव च । ग्रहनिक्षेपसमितिः पानान्नमवलोकितम् ॥ ६३ ॥ इत्येताः परिकीर्त्यन्ते प्रथमे पञ्च भावनाः । क्रोधलोभपरित्यागौ हास्यभीरुत्ववर्जने ॥ १४॥ अनुवीचिवचश्येति द्वितीये पञ्च भावनाः । शून्यागारेषु वसनं विमोचितगृहेषु च ॥ ६५ ॥ उपरोधाविधानं च भैश्यशुद्धियथोदिता। ससधर्माऽविसम्वादस्तृतीये पञ्च भावनाः ॥ ६६ ॥ स्त्रीणां रागकथाश्रावो रमणीयाङ्गवीक्षणम् । पूर्वरत्याः स्मृतिश्चैव वृष्येष्टरसवर्जनम् ॥ ६७ ॥ शरीरसंस्क्रियात्यागश्चतुर्थे पञ्च भावनाः । मनोज्ञा अममोशाश्च ये पञ्चेन्द्रियगोचराः ॥ ६८ ॥ रागद्वेषोज्झनाम्येषु पञ्चमे पञ्च भावनाः । इह व्यपायहेतुत्वममुत्रावद्यहेतुताम् ॥ ६९ ॥ हिंसादिषु विपक्षेषु भावयेञ्च समन्ततः । स्वयं दुखस्वरूपत्वाद्दुःखहेतुस्वतोऽपि च ॥ ७० ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy