SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसारः। परुषासह्यवादित्वं सौभाग्यकारणं तथा। अशुभस्येति निर्दिष्टा नाम्न आस्रवहेतवः ॥४७॥ संसारभीरुतानित्यमविसंवादनं तथा। योगानां चार्जवं नाम्नः शुभस्यानवहेतवः॥४८॥ विशुद्धिदर्शनस्योच्चैस्तपस्त्यागौ च शक्तितः। मार्गप्रभावना चैव सम्पत्तिविनयस्य च ॥४९॥ शीलवतानतीचारो नित्यं संवेगशीलता। ज्ञानोपयुक्तताभीक्ष्णं समाधिश्च तपस्विनः ॥ ५० ॥ वैयावृत्त्यमनिर्हाणिः षविधाऽवश्यकस्य च । भक्तिः प्रवचनाचार्यजिनप्रवचनेषु च ॥५१॥ वात्सल्यं च प्रवचने षोडशैते यथोदिताः। नाम्नस्तीर्थकरत्वस्य भवन्त्यास्रवहेतवः ॥५२॥ असद्गणानामाख्यानं सद्गणाच्छादनं तथा। स्वप्रशंसान्यनिन्दा च नीचैर्गोत्रस्य हेतवः ॥५३॥ नीचैर्वृत्तिरनुत्सेकः पूर्वस्य च विपर्ययः । उच्चैर्गोत्रस्य सर्वज्ञैः प्रोक्ता आस्रवहेतवः ॥ ५४ ॥ तपस्विगुरुचैत्यानां पूजालोपप्रवर्तनम् । अनाथदीनकृपणभिक्षादिप्रतिषेधनम् ॥ ५५॥ वधबन्धनिरोधैश्च नासिकाच्छेदकर्तनम् । प्रमादाद्देवतादत्तनैवेद्यग्रहणं तथा ॥ ५६ ॥ निरवद्योपकरणपरित्यागो वधोऽङ्गिनाम् । दानभोगोपभोगादिप्रत्यूहकरणं तथा ।। ५७ ॥ ज्ञानस्य प्रतिषेधश्च धर्मविघ्नकृतिस्तथा । इत्येवमन्तरायस्य भवन्त्यास्रवहेतवः ॥५८॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy