SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३८ प्रथम गुच्छक। नैःशाल्यं निर्वृतत्वं च मिथ्यात्वं परवञ्चनम् । मिथ्यात्वसमवेतानामधर्माणां च देशनम् ॥ ३५ ॥ कृत्रिमाऽगुरुकर्पूरकुङ्कमोत्पादनं तथा । तथा मानतुलादीनां कूटादीनां प्रवर्तनम् ॥ ३६॥ सुवर्णमौक्तिकादीनां प्रतिरूपकनिर्मितिः। वर्णगन्धरसादीनामन्यथापादनं तथा ॥ ३७॥ तक्रक्षीरघृतादीनामन्यद्रव्यविमिश्रणम् । वाचान्यदुत्काकरणमन्यस्य क्रियया तथा ॥ ३८ ॥ कापोतनीललेश्यात्वमार्तध्यानं च दारुणम् । तैर्यग्योनायुषो शेया माया चारवहेतवः ॥ ३९ ॥ ऋजुत्वमीषदारम्भः परिग्रहतया सह । स्वभावमार्दवं चैव गुरुपूजनशीलता ॥ ४० ॥ अल्पसंक्लेशतादानं विरतिः प्राणिघाततः। आयुषो मानुषस्येति भवन्त्यानवहेतवः ॥ ४१ ॥ अकामनिर्जरा वालतपो मन्दकषायता। सुधर्मश्रवणं दानं तथायतनसेवनम् ॥ ४२ ॥ सरागसंयमश्चैव सम्यक्त्वं देशसंयमः। इति देवायुषो ह्येते भवन्त्यास्रवहेतवः ॥ ४३ ॥ मनोवाकायवक्रत्वं विसंवादनशीलता। मिथ्यत्वं कूटसाक्षित्वं पिशुनास्थिरचित्तता ॥४४॥ विषक्रियेष्टकापाकदावाग्नीनां प्रवर्तनम् । प्रतिमायतनोद्यानप्रतिश्रयविनाशनम् ॥ ४५ ॥ चैत्यस्य च तथा गन्धमाल्यधूपादिमोषणम् । अतितीव्रकषायत्वं पापकर्मोपजीवनम् ॥ ४६ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy