________________
तत्त्वार्थसारः ।
शृङ्खला वागुरापाशरज्जुजालादिसर्जनम | धर्मविध्वंसनं धर्मप्रत्यूहकरणं तथा ॥ २३ ॥ तपस्विगर्हणं शीलव्रतप्रच्यावनं तथा । इत्यसदनीयस्य भवन्त्यास्रवहेतवः ॥ २४ ॥ दया दानं तपः शीलं सत्यं शौचं दमः क्षमा । वैयावृत्यं विनीतिश्च जिनपूजार्जवं तथा ॥ २५ ॥ सरागसंयमश्चैव संयमासंयमस्तथा । भूतवृत्त्यनुकम्पा च सद्वेद्यास्रवहेतवः ॥ २६ ॥ केवलीत संघानां धर्मस्य त्रिदिवौकसाम् । अवर्णवादग्रहणं तथा तीर्थकृतामपि ॥ २७ ॥ मार्गसंदूषणं चैव तथैवोन्मार्गदेशनम् । इति दर्शनमोहस्य भवन्त्यास्रवहेतवः ॥ २८ ॥ स्यात्तीवपरिणामो यः कषायाणां विपाकतः । चारित्रमोहनीयस्य स एवात्रवकारणम् ॥ २९ ॥ उत्कृष्टमानता शैलराजीसदृशरोषता । मिथ्यात्वं तीव्रलोभत्वं नित्यं निरनुकम्पता ॥ ३० ॥ अजस्त्रं जीवघातित्वं सततानृतवादिता परस्वहरणं नित्यं नित्यं मैथुनसेवनम् ॥ ३१ ॥ कामभोगाभिलाषाणां नित्यं चातिप्रवृद्धता । जिनस्यासादनं साधुसमयस्य च भेदनम् ॥ ३२ ॥ मार्जारताम्रचूडादिपापीयः प्राणिपोषणम् । नैः शील्यं च महारम्भपरिग्रहतया सह ॥ ३३ ॥ कृष्णलेश्या परिणतं रौद्रध्यानं चतुर्विधम् । आयुषो नारकस्येति भवन्त्यात्रवहेतवः ॥ ३४ ॥
१३७