________________
१३६
प्रथम गुच्छक ।
कृतादिभिस्त्रिभिश्चैव चतुर्भिश्च क्रुधादिभिः । जीवाधिकरणस्येति भेदादष्टोसरं शतम् ॥ ११॥ संयोगो द्वौ निसर्गास्त्रीनिक्षेपाणां चतुष्टयम् । निवर्त्तनाद्वयं चाहुर्भेदानित्यपरस्य तु ॥ १२ ॥ मात्सर्यमन्तरायश्च प्रदोषो निह्नवस्तथा । आसादनौपघातौ च ज्ञानस्योत्सूत्रचोदितौ ॥ १३॥ अनादरार्थश्रवणमालस्यं शास्त्रविक्रयः। बहुश्रुताभिमानेन तथा मिथ्योपदेशनम् ॥ १४॥ अकालाधीतिराचार्योपाध्यायप्रत्यनीकता। श्रद्धाभावोऽप्यनभ्यासस्तथा तीर्थोपरोधनम् ॥ १५ ॥ बहुश्रुतावमानश्च ज्ञानाधीतेश्च शाठ्यता। इत्येते ज्ञानरोधस्य भवन्त्यात्रवहेतवः ॥ १६ ॥ दर्शनस्यान्तरायश्च प्रदोषो निह्नवोऽपि च । मात्सर्यमुपघातश्च तस्यैवासादनं तथा ॥ १७॥ नयनोत्पाटनं दीर्घस्वापिता शयनं दिवा। नास्तिक्यवासना सम्यग्दृष्टिसन्दूषणं तथा ॥ १८ ॥ कुतीर्थानां प्रशंसा च सुगुप्सा च तपस्विनाम् । दर्शनावरणस्यैते भवन्त्यास्रवहेतवः ॥ १९ ॥ दुःखं शोको वधस्तापः क्रन्दनं परिदेवनम् । परात्मद्वितयस्थानि तथा च परपैशुनम् ॥ २० ॥ छेदनं भेदनं चैव ताडनं दमनं तथा। तर्जनं भर्त्सनं चैव सद्यो विश्वसनं तथा ॥ २१॥ पापकर्मोपजीवित्वं वक्रशीलत्वमेव च । शस्त्रप्रदानं चिश्रम्भघातनं विषमिश्रणम् ॥ २२॥