________________
तत्वार्थसारः ।
इतीहाजीवतस्त्वं यः श्रद्धत्ते वेत्युपेक्षते । शेषतस्त्रैः समं षड़भिः स हि निर्वाणभाग्भवेत् ॥ ७७ ॥ इत्यजीवतत्त्ववर्णनम् ॥ ३ ॥
अनन्त केवलज्योतिःप्रकाशित जगत्रयान् । प्रणिपत्य जिनान सर्वानास्रवः संप्रवक्ष्यते ॥ १ ॥ कायवाङ्मनसां कर्म स्मृतो योगः स आस्रवः । शुभः पुण्यस्य विज्ञेयो विपरीतश्च पाप्मनः ॥ २ ॥ सरसः सलिलावाहिद्वारमत्र जनैर्यथा । तदास्रवणहेतुत्वादात्रवो व्यपदिश्यते ॥ ३ ॥ आत्मनोऽपि तथैवैषा जिनैर्योगप्रणालिका | कर्मास्रवस्य हेतुत्वादात्रवो व्यपदिश्यते ॥ ४ ॥ जन्तवः सकषाया ये कर्म ते साम्परायिकम् । अर्जयन्त्युपशान्ताद्या ईर्यापथमथाऽपरे ॥ ५ ॥ साम्परायिकमेतत्स्यादार्द्रचर्मस्थरेणुवत् । सकषायस्य यत्कर्मयोगानीतं तु मूर्च्छति ॥ ६ ॥ ईर्यापथं तु तच्छुककुड्यप्रक्षिप्तलोष्टवत् ।
अकषायस्य यत्कर्म योगानीतं न मूर्च्छति ॥ ७ ॥ चतुः कषाय पञ्चाक्षैस्तथा पञ्चभिरवतैः । क्रियाभिः पञ्चविंशत्या साम्परायिकमाश्रयेत् ॥ ८ ॥ तीव्रमन्दपरिज्ञातभावेभ्योऽज्ञातभावतः । वीर्याधिकरणाभ्यां च तद्विशेषं विदुर्जिनाः ॥ ९ ॥ तत्राऽधिकरणं द्वेधा जीवाऽजीवविभेदतः । त्रिःसंरम्भसमारम्भारम्भैर्योगैस्तथा त्रिभिः ॥ १० ॥
१३५