SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३४ प्रथम गुच्छक । अन्त्यापेक्षिकभेदेन ज्ञेयं स्थौल्यमपि द्विधा। महास्कन्धेऽन्त्यमन्यच्च बदरामलकादिषु ॥ ६६ ॥ द्विधा वैनसिको बन्धस्तथा प्रायोगिकोऽपि च । तत्र वैनसिको वह्निविधुदम्भोधरादिषु ॥ बन्धः प्रायोगिको शेयो जतुकाष्ठादिलक्षणः ॥ ६७ ॥ .. (षट्पदम् । ) कर्मनोकर्मबन्धो यः सोऽपि प्रायोगिको भवेत् । तमो द्वप्रतिबन्धः स्यात्प्रकाशस्य विरोधि च ॥ ६८ ॥ प्राकाशावरणं यत्स्यानिमित्तं वपुरादिकम् । छायेति सा परिज्ञेया द्विविधा सा च जायते ॥ ६९ ॥ तत्रैका खलु वर्णादिविकारपरिणामिनी।। स्यात्प्रतिबिम्बमात्रान्या जिनानामिति शासनम् ।। ७ ।। आतपोऽपि प्रकाशः स्यादुष्णश्चादित्यकारणः । उद्योतश्चन्द्ररत्नादिप्रकाशः परिकीर्तितः ॥ ७१ ॥ उत्करश्चूर्णिकाचूर्णः खण्डोऽनुचटनं तथा। प्रतरश्चेति षड्भेदा भेदस्योक्ता महर्षिभिः ॥ ७२ ॥ विसदृक्षाः सद्रक्षा वा ये जघन्यगुणा न हि । प्रयान्ति स्निग्धरूक्षत्वाद्वन्धते परमाणवः ॥ ७३ ॥ संयुक्ता ये खलु स्वस्माद्वयाधिकगुणैर्गुणैः । बन्धः स्यात्परमाणूनां तैरेव परमाणुभिः ॥ ७४॥ बन्धेऽधिकगुणो यः स्यात्सोऽन्यस्य परिणामकः। रेणोरधिकमाधुर्यो दृष्टः क्लिन्नगुडो यथा ॥ ७५ ॥ घणुकाद्याः किलाऽनन्ताः पुद्गलानामनेकधा। सन्त्यचित्तमहास्कन्धपर्यन्ता बन्धपर्ययाः ॥ ७६ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy