SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसारः। १३३ भूतादिव्यपदेशोऽसौ मुख्यो गौणो ह्यनेहसि। व्यावहारिककालोऽपि मुख्यतामादधात्यसौं ॥५४॥ भेदादिभ्यो निमित्तेभ्यः पूरणाद्गलनादपि। पुद्गलानां स्वभावः कथ्यन्ते पुद्गला इति ॥ ५५ ॥ अणुस्कन्धविभेदेन द्विविधाः खलु पुद्गलाः। स्कन्धो देशः प्रदेशश्च स्कन्धस्तु त्रिविधो भवेत् ॥ ५६ ॥ अनन्तपरमाणूनां संघातः स्कन्ध इष्यते । देशस्तस्यार्द्धमर्द्धार्द्ध प्रदेशः परिकीर्तितः ॥ ५७ ॥ भेदात्तथा च संघातात्तथा तदुभयादपि । उत्पद्यन्ते खलु स्कन्धा भेदादेवाणवः पुनः ॥ ५८ ॥ आत्मादिरात्ममध्यश्च तथाऽत्मान्तश्च नेन्द्रियैः। गृह्यते यो विभागी च परमाणु स उच्यते ॥ ५९॥ सूक्ष्मो नित्यस्तथान्त्यश्च कार्यलिङ्गस्य कारणम् । एकगन्धरसश्चैकवर्णो द्विस्पर्शवांश्च सः ॥ ६ ॥ वर्णगन्धरसस्पर्शसंयुक्ताः परमाणवः । स्कन्धा अपि भवन्त्येते वर्णादिभिरनुज्झिताः ॥ ६१ ॥ शब्दसंस्थानसूक्ष्मत्वस्थौल्यबन्धसमन्विताः । तमश्छायातपोद्योतमेदवन्तश्च सन्ति ते ॥ ६२॥ साक्षरोऽनक्षरश्चैव शब्दो भाषात्मको द्विधा । प्रायोगिको वेनसिको द्विधा भाषात्मकोऽपि च ॥ ६३ ॥ संस्थानं कलशादीनामित्थं लक्षणमिष्यते । शेयमम्भोघरादीनामनित्थं लक्षणं तथा ॥ ६४ ॥ अन्त्यमापेक्षिकञ्चति सूक्ष्मत्वं द्विविधं भवेत् । परमाणुषु तत्रान्त्यमन्यद्विल्वारुकादिषु ॥ ६५ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy