________________
प्रथम गुच्छक।
आत्मना वर्तमानानां द्रव्याणां निजपर्ययैः । वर्तनाकरणात्कालो भजते हेतुकर्तृताम् ॥ ४२ ॥ न चास्य हेतुकर्तृत्वां निःक्रियस्थ विरुध्यते । यतो निमित्तमात्रेऽपिं हेतुकर्तृत्वमिष्यते ॥ ४३ ॥ एकैकवृत्त्या प्रत्येकमणवस्तस्य निःक्रियाः। लोकाकाशप्रदेशेषु रत्नराशिरिव स्थिताः॥ ४४ ॥ व्यावहारिककालस्य परिणामस्तथा क्रिया। परत्वं चापरत्वं च लिङ्गान्याहुमहर्षयः॥ ४५ ॥ स्वजातेरविरोधेन विकारो यो हि वस्तुनः । परिणामः स निर्दिष्टोऽपरिस्पन्दात्मको जिनैः ॥ ४६ ॥ प्रयोगविनसाभ्यां या निमित्ताभ्यां प्रजायते । द्रव्यस्य सा परिशेया परिस्पन्दात्मिका क्रिया ॥४७॥ परत्वं विप्रकृष्टत्वमितरत्सन्निकृष्टता। ते च कालकृते ग्राह्ये कालप्रकरणादिह ॥ ४८ ॥ ज्योतिर्गतिपरिच्छिन्ना मनुष्यक्षेत्रवर्त्यसो । यतो न हि बहिस्तस्माज्ज्योतिषां गतिरिष्यते ॥४९॥ भूतश्च वर्तमानश्च भविष्यनिति च विधा। परस्परव्यपेक्षत्वाव्यपदेशो ह्यनेकशः ॥ ५० ॥ यथाऽनुसारतः पति बहूनामिह शाखिनाम् । क्रमेण कस्यचित् पुंस, एकैकाऽनोकुहं प्रति ॥ ५१ ॥ संप्राप्तः प्राप्नुवन्प्राप्स्यन्व्यपदेशः प्रजायते । द्रव्याणामपि कालाणूंस्तथाऽनुसरतामिमान् ॥५२॥ पर्यायं चानुभवतां वर्तनाया यथाक्रमम् । भूतादिव्यवहारस्य गुरुभिः सिद्धिरिष्यते ॥ ५३॥