________________
तत्त्वार्थसारः।
१३१ धर्मस्य गतिरत्र स्यादधर्मस्य स्थितिर्भवेत् । उपकारोऽवगाहस्तु नभसः परिकीर्तितः ॥ ३० ॥ पुद्गलानां शरीरं वाक् प्राणापानौ तथा मनः। उपकारः सुखं दुःखं जीवितं मरणं तथा ॥ ३१॥ परस्परस्य जीवानामुपकारो निगद्यते। उपकारस्तु कालस्य वर्तना परिकीर्तिता ॥ ३२॥ क्रियापरिणतानां यः स्वयमेव क्रियावताम् । आदधाति सहायत्वं स धर्मः परिगीयते ॥ ३३ ॥ जीवानां पुद्गलानां च कर्तव्ये गत्युपग्रहे । जलवन्मत्स्यगमने धर्मः साधारणाश्रयः ॥ ३४ ॥ स्थित्या परिणतानां तु सचिवत्वं दधाति यः। तमधर्म जिनाः प्राहुनिरावरगदर्शनाः ॥ ३५ ॥ जीवानां पुद्गलानां च कर्तव्ये स्थित्युपग्रहे। साधारणाश्रयो धर्मः पृथिधीव गवां स्थितौ ॥ ३६॥ आकाशान्तेऽत्र द्रव्याणि स्वयमाकाशतेऽथवा । द्रव्याणामवकाशं वा करोत्याकाशमस्त्यतः ॥ ३७॥ जीवानां पुद्गलानां च कालस्याधर्मधर्मयोः । अवगाहनहेतुत्वं तदिदं प्रतिपद्यते ॥ ३८ ॥ क्रियाहेतुत्वमेतेषां नि क्रियाणां न हीयते । यतः खलु बलाधानमात्रमत्र विपक्षितम् ॥ ३९ ॥ स कालो यन्निमित्ताः स्युः परिणामादिवृत्तयः। वर्तनालक्षणं तस्य कथयन्ति विपश्चितः ॥ ४० ॥ अन्ततिकसमया प्रतिद्रव्यविपर्ययम्। अनुभूतिः स्वसत्तायाः स्मृता सा खलु वर्तना ॥४१॥