SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३० प्रथम गुच्छक | धर्माधर्मो नमः कालश्चत्वारः सन्ति निःक्रियाः : जीवाश्च पुद्गलाश्चैव भवन्त्येतेषु सक्रियाः ॥ १८ ॥ एकस्य जीवद्रव्यस्य धर्माधर्मास्तिकाययोः । असङ्घयेय प्रदेशत्वमेतेषां कथितं पृथक् ॥ १९ ॥ सङ्ख्येयाश्चाप्यसङ्ख्येया अनन्ता यदि वा पुनः । पुद्गलानां प्रदेशाः स्युरनन्ता वियतस्तु ते ॥ २० ॥ कालस्य परिमाणस्तु द्वयोरप्येतयोः किल । एक प्रदेशमात्रत्वादप्रदेशत्वमिष्यते ॥ २१ ॥ लोकाकाशेऽवगाहः स्याद्द्रव्याणां न पुनर्बहिः । लोकालोकविभागः स्यादत एवाम्बरस्य हि ॥ २२ ॥ लोकाकाशे समस्ते धर्माधर्मास्तिकाययोः । तिलेषु तैलवत्प्राहुरवगाहं महर्षयः ॥ २३ ॥ संहाराश्च विसर्पाश्च प्रदेशानां प्रदीपवत् । जीवस्तु तदसंख्येयभागादीनवगाहते ॥ २४ ॥ लोकाकाशस्य तस्यैकप्रदेशादिस्तथा पुनः । पुद्गला अवगाहन्ते इति सर्वज्ञशासनम् ॥ २५ ॥ अवगाहन सामर्थ्यात्सूक्ष्मत्वपरिणामिनः । तिष्ठन्त्येक प्रदेशेऽपि बहवोऽपि हि पुद्गलाः ॥ २६ ॥ एकापवर के sनेकप्रकाशस्थितिदर्शनात् । न च क्षेत्रविभागः स्यान्न चैक्यमवगाहिनाम् ॥ २७ ॥ अल्पेऽधिकरणे द्रव्यं महीयो नावतिष्ठते । इदं न क्षमते युक्तिं दुःशिक्षित कृतं वचः ॥ २८ ॥ अल्पक्षेत्रे स्थितिर्दृष्टा प्रचयस्य विशेषतः । पुद्गलानां बहूनां हि करीषपटलादिषु ॥ २९ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy