________________
सत्त्वार्थसारः।
१२९
द्रव्यस्य स्यात्समुत्पादश्चेतनस्येतरस्य च । भावान्तरपरिप्राप्तिनिजा जातिमनुज्झतः ॥ ६॥ स्वजातेरविरोधेन द्रव्यस्य द्विविधस्य हि । विगमः पूर्वभावस्य व्यय इत्यभिधीयते ॥ ७॥ समुत्पादव्ययाभावो यो हि द्रव्यस्य दृश्यते । अनादिना स्वभावेन तदोव्यं ब्रुवते जिनाः ॥ ८ ॥ गुणो द्रव्यविधानं स्यात् पर्यायो द्रव्यविक्रिया । द्रव्यं ह्ययुतसिद्धं स्यात्समुदायस्तयोर्द्वयोः ॥९॥ सामान्यमन्वयोत्सर्गौ शब्दाः स्युर्गुणवाचकाः । व्यतिरेको विशेषश्च भेदः पर्यायवाचकाः ॥ १० ॥ गुणैर्विना न च द्रव्यं विना द्रव्यानो गुणाः । द्रव्यस्य च गुणानां च तस्मादव्यातरिक्तता ॥ ११॥ न पर्यायाद्विना द्रव्यं विना द्रव्यान्न पर्ययः। वदन्त्यनन्यभूतत्वं द्वयोरपि महर्षयः ॥ १२ ॥ न च नाशोऽस्ति भावस्य न चाभावस्य सम्भवः । भावाः कुर्युर्व्ययोत्पादौ पर्यायेषु गुणेषु च ॥ १३ ॥ द्रव्याण्येतानि नित्यानि तद्भावान व्ययन्ति यत् । प्रत्यभिज्ञानहेतुत्वं तद्भावस्तु निगद्यते ॥१४॥ इयत्ता नातिवर्तन्ते यतः षडिति जातुचित्। अवस्थितत्वमेतेषां कथयन्ति ततो जिनाः ॥ १५॥ शब्दरूपरसस्पर्शगन्धात्यन्तव्युदासतः । पञ्च द्रव्याण्यरूपाणि रूपिणः पुद्गलाः पुनः ॥ १६ ॥ धर्माधर्मान्तरिक्षाणां द्रव्यमेकत्वमिष्यते। कालयुद्गलजीवानामनेकद्रव्यता मता ॥ १७ ॥