________________
प्रथम गुच्छक।
सामान्यादेकधा जीवो बद्धो मुक्तस्ततो द्विधा । स एवासिद्धनोसिसिद्धत्वात् कीर्त्यते त्रिया ॥ २३४ ॥ भ्वाभ्रतिर्यग्नरामर्त्यविकल्पात् स चतुर्विधः । प्रशमक्षयतद्वन्दः परिगामोदयो भवेत् ॥ २३५ ॥ . भावः पञ्चविधत्वात्स पञ्चभेदः प्ररूप्यते। . षण्मार्गगमनात्षोढा सप्तधा सप्तभङ्गतः ॥ २३६ ॥ अष्टधाष्टगुणात्मत्वादष्टकर्मकृतोऽपि च । पदार्थनवकात्मत्वान्नधधा दशधा तु सः । दशजीवभिदात्मत्वादिति चिन्त्यं यथागमम् ।। २३७ ।।
(षट्पदम् । ) इत्येतजीवतत्वं यः श्रद्धत्ते वेत्त्युपेक्षते। शेषतत्वैः समं षड्भिः स हि निर्वाणभाग्भवेत् ॥ २३८ ॥
इति जीवतत्त्ववर्णनम् ॥ २ ॥
अनन्तकेवलज्योतिःप्रकाशितजगत्त्रयान् । प्रणिपत्य जिनान् सर्वानजीवाः संप्रचक्ष्यते॥१॥ धर्माधर्मावथाकाशं तथा कालश्च पुद्गलाः । अजीवाः खलु पञ्चैते निर्दिष्टाः सर्वदर्शिभिः ॥२॥ एते धर्मादयः पञ्च जीवाश्च प्रोक्तलक्षणाः । षट् द्रव्याणि निगद्यन्ते द्रव्ययाथात्म्यवेदिभिः ॥३॥ विना कालेन शेषाणि द्रव्याणि जिनपुङ्गवैः। पञ्चास्तिकाया कथिताः प्रदेशानां बहुत्वतः ॥ ४ ॥ समुत्पादव्ययध्रौव्यलक्षणं क्षीणकल्मषाः । गुणपर्ययवद्रव्यं वदन्ति जिनपुङ्गवाः ॥५॥ .