________________
बृहत्स्वयम्भूस्तोत्रम् । व्याकोशवाङ्मयायमयूखमालः पूयात्पवित्रो भगवान्मनो मे४०।
इति चन्द्रप्रभजिनस्तोत्रम्. एकान्तदृष्प्रितिषेधि तत्त्वं प्रमाणसिद्धं तदतत्वभावम् । त्वया प्रणीतं सुविधे खधाम्ना नैतत्समालीढ़पदं त्वदन्यैः॥४१॥ नदेव च स्थान्न तदेव च स्यात्तथा प्रतीतेस्तव तत्कथश्चित् । नात्यन्तमन्यत्वमानन्यता च विधेनिषेधस्य च शून्यदोषात् ॥४२॥ नित्यं तदेवेदमिति प्रतीतेन नित्यमन्यत्प्रतिपत्तिसिद्धः । न तद्विरुद्धं बहिरन्तरङ्गनिमित्तनैमित्तिकयोगतस्ते ॥४३॥ अनेकमेकं च पदस्य वाच्यं वृक्षा इति प्रत्ययवत्प्रकृत्या । आकाक्षिणःस्यादिति वै निपातो गुणानपेने नियमे पवादः४४ गुणप्रधानार्थमिदं हि वाक्यं जिनस्य ते तद्विषतामपश्यम् । तता भिवन्धं जगदोश्वराणां ममापि साधोस्तव पादपद्मम्।४५॥
. इति सुविधिजिनस्तोत्रम्. न शीतलाश्चन्दनचन्द्ररश्मयो न गाङ्गमम्भो न च हारयष्टयः । यथा मुनस्ते नघवाक्यरश्मयःशमांबुगर्भाःशिशिरा विपश्चिता४६ सुखाभिलाषानलदाहमूञ्छितं मनो निजं ज्ञानमयामृताम्बुभिः । विदिध्यपस्त्वं विषदाहमोहितं यथा भिषग्मन्त्रगुणैः स्वविग्रहं४७॥ स्वर्जीविते कामसुखे च तृष्णया दिवाश्रमात निशिशेरते प्रजाः। स्वमार्य नक्तंदिवमप्रमत्तवानजागरेवात्मविशुद्धवर्त्मनि ॥४८॥ अपत्यवित्तीत्तरलोकतृष्णया तपस्विनः केचन कर्म कुर्वते । भवान्युनर्जन्मजरा जिहासया त्रयी प्रवृत्तिं शमधीरवारुणात्४६॥ त्वमुत्तमज्यातिरजः क निर्वृतः क ते परे बुद्धिलवोद्धवक्षताः । ततः स्वनिश्रेयलभावनापरैवुधप्रवेकैर्जिनशीतलेड्यसे ॥ ५० ॥
इति शीतलजिनस्तोत्रम्.