SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक | आर्यम्लेच्छविभेदेन द्विविधास्ते तु मानुषाः । आर्यखण्डोद्भवा आर्या म्लेच्छाः केचिच्छकादयः । म्लेच्छखण्डोद्भवा म्लेच्छा अन्तरद्वीपजा अपि ॥ २१२ ॥ ( षट्पदम् । ) १२६ भावनव्यन्तरज्योतिर्वैमानिकविभेदतः । देवाश्चतुर्णिकायाः स्युर्नामकर्मविशेषतः ॥ २१३ ॥ दशधा भावना देवा अष्टधा व्यन्तराः स्मृताः । ज्योतिकाः पञ्चधा ज्ञेयाः सर्वे वैमानिका द्विधा ॥ २१४ ॥ नागासुरसुपर्णाग्निदिग्वातस्तनितोदधिः । द्वीपविद्युत्कुमाराख्या दशधा भावना स्मृताः ॥ २१५|| किन्नराः किम्पुरुषाश्च गन्धर्वाश्च महोरगाः । यक्षराक्षसभूताश्च पिशाचा व्यन्तराः स्मृताः ॥ २१६ ॥ सूर्याचन्द्रमसौ चैव ग्रहनक्षत्रतारकाः । ज्योतिष्काः पञ्चधा द्वेधा ते चलाचलभेदतः ॥ २१७ ॥ कल्पोत्पन्नास्तथा कल्पातीता वैमानिका द्विधा । इन्द्राः सामानिकाश्चैव त्रायस्त्रिंशाश्च पार्षदाः ॥ २९८ ॥ आत्मरक्षास्तथा लोकपालानीकप्रकीर्णकाः । किल्विषा अभियोग्याश्च भेदाः प्रतिनिकायकाः ॥ २१९ ॥ श्रायत्रिस्तथा लोकपालैर्विरहिताः परे । व्यन्तरज्योतिषामष्टौ भेदाः सन्तीति निश्चिताः ॥ २२० ॥ पूर्वे कायप्रवीचारा व्याप्यैशानं सुराः स्मृताः । स्पर्शरूपध्वनिस्वान्तप्रवीचारास्ततः परे । ततः परेऽप्रवीचाराः कामकुंशाल्पभावतः ॥ २२१ ॥ ( षट्पदम् । )
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy