SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ तत्वार्थसारः । द्विचतुर्योजनं ज्ञेयं तद्वितीयतृतीययोः । अपाच्य वदुदोच्यानां पुष्कराणां प्रमाश्रिताः ॥ २०० ॥ श्रीश्च ह्रीश्च धृतिः कीर्त्तिर्बुद्धिर्लक्ष्मीश्च देवताः । पल्योपमायुषस्तेषु पर्षात्सामानिकान्विताः ।। २०१ ॥ गङ्गासिन्धू उभे रोहिद्रोहितास्ये तथैव च । स्तो हरिद्धरिकान्ते च शीताशीतोदके तथा ॥ २०२ ॥ स्तो नारीनरकान्ते च सुवर्णार्जुनकूलिके । रक्तारक्तोदके च स्तो द्वे द्वे क्षेत्रे च निम्नगे ॥ २०३ ॥ पूर्वसागरगामिन्यः पूर्वा नद्यो द्वयोर्द्वयोः । पश्चिमार्णवगामिन्यः पश्चिमास्तु तयोर्मताः ॥ २०४ ॥ गङ्गासिन्धुपरीवारः सहस्राणि चतुर्दश । नदीनां द्विगुणास्तिस्रस्तिसृतोऽर्द्धार्द्धहापनम् ॥ २०५ ॥ दशोनद्विशतीभरको जम्बूद्वीपस्य विस्तरः | विस्तारो भरतस्यासौ दक्षिणोत्तरतः स्मृतः ॥ २०६ ॥ द्विगुणद्विगुणा वर्षधरवर्षास्ततो मताः । आविदेहात्ततस्तु स्युरुत्तरा दक्षिणैः समाः ॥ २०७ ॥ उत्सर्पिण्यवसर्पिण्यौ षट्समे वृद्धिहानिदे | १२५ भरतैरावतौ मुक्त्वा नान्यत्र भवतः क्वचित् ॥ २०८ ॥ जम्बूद्वीपोक्तसंख्याभ्यो वर्षा वर्षधरा अपि । द्विगुणा धातकीखण्डे पुष्करार्द्ध च निश्चताः ॥ २०९ ॥ पुष्करद्वीपमध्यस्थो मानुषोत्तरपर्वतः । श्रूयते वलयाकारस्तस्य प्रागेव मानुषाः ॥ २१० ॥ द्वीपेष्वर्धतृतीयेषु द्वयोश्चापि समुद्रयोः । निवासोऽत्र मनुष्याणामत एव नियम्यते ॥ २११ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy