SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक । द्विगुणद्विगुणेनातो विष्कम्मेणार्णवादयः। पूर्व पूर्व परिक्षिप्य वलयाकृतयः स्थिताः ॥ १८९ ।। जम्बूद्वीपं परिक्षिप्य लवणोदः स्थितोऽर्णवः । द्वीपस्तु धातकीखण्डस्तं परिक्षिप्य संस्थितः ॥ १९० ॥ आवेष्ट्य धातकीखण्डं स्थितः कालोदसागरः आवेष्ट्य पुष्करद्वीपः स्थितः कालोदसागरम् ॥ १९१॥ परिपाट्यानया ज्ञेयाः स्वयम्भूरमणोदधिः। यावजिनाशया भव्यैरसड्डया द्वीपसागराः ॥ १९२॥ सप्त क्षेत्राणि भरतस्तथा हैमवतो हरिः । विदेहो रम्यकश्चैव हैरण्यवत एव च। ऐरावतश्च तिष्ठन्ति जम्बूद्वीपे यथाक्रमम् ॥ १९३ ।। .. (षट्पदम् । ) पार्श्वेषु मणिभिश्चित्रा ऊर्ध्वाधस्तुल्यविस्तराः। तद्विभागकराः षट् स्युः शैलाः पूर्वापरायताः ॥ १९४ ॥ हिमवान्महाहिमवान्निषधो नीलरुक्मिणौ। शिखरी चेति संचिन्त्या एते वर्षधराद्रयः ॥ १९५॥ कनकार्जुनकल्याणवैडूर्यार्जुनकाञ्चनैः । यथाक्रमेण निर्वृत्ताश्चिन्त्यास्ते षण्महीधराः ॥ १९६ ॥ पनस्तथा महापद्मस्तिगिछः केशरी तथा । पुण्डरीको महान् क्षुद्रो हृदा वर्षधराद्रिषु ॥ १९७ ॥ सहस्रयोजनायाम आद्यस्तस्यार्द्धविस्तरः । द्वितीयो द्विगुणस्तस्मात्तृतीयो द्विगुणस्ततः ॥ १९८ ॥ उत्तरा दक्षिणैस्तुल्या निन्नास्ते दशयोजनीम्। प्रथमे परिमाणेन योजनं पुष्कर हदे ॥ १९९ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy