SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ तत्वार्थसारः । अधो वेसनाकारो मध्येऽसौ झलरीसमः । ऊर्ध्वं मृदङ्गसंस्थानो लोकः सर्वज्ञवर्णितः ।। १७७ ॥ सर्वसामान्यतो लोकस्तिरश्चां क्षेत्रमिष्यते । श्वाभ्रमानुषदेवानामथातस्तद्विभज्यते ॥ १७८ ॥ अधोभागे हि लोकस्य सन्ति रत्नप्रभादयः ॥ . घनाम्युपवनाकाशे प्रतिष्ठाः सप्तभूमयः ।। १७९ ।। रत्नप्रभादिमा भूमिस्ततोऽधः शर्कराप्रभा । स्याद्वालुकाप्रभातोऽधस्ततः पङ्कप्रभा मता ॥ १८० ॥ ततो धूमप्रभाधस्तात्ततोऽधस्तात्तमःप्रभा । तमस्तमःप्रभातोऽधो भुवामित्थं व्यवस्थितिः ॥ १८१ ॥ त्रिंशन्नर लक्षाणि भवन्त्युपरिमक्षितौ ॥ अधः पञ्चकृतिस्तस्यास्ततोऽधो दशपञ्च च ॥ १८२ ॥ ततोऽधो दशलक्षाणि त्रीणि लक्षाण्यधस्ततः । पञ्चोनं लक्षमेकं तु ततोऽधः पञ्च तान्यतः ॥ १८३ ॥ परिणामवपुर्लेश्या वेदनाविक्रियादिभिः । अत्यन्तमशुभैर्जीवा भवन्त्येतेषु नारकाः ॥ १८४ ॥ अन्योन्योदीरितासह्यदुःखभाजो भवन्ति ते । संक्लिष्टासुरनिर्वृत्तदुःखाचोर्ध्वक्षितित्रये ॥ १८५ ॥ पाकान्नरकगत्यास्ते तथा च नरकायुषः । भुञ्जन्ते दुःकृतं घोरं चिरं सप्तक्षितिस्थिताः ॥ १८६ ॥ मध्यभागे तु लोकस्य तिर्यक्प्रचयवर्द्धिनः । असङ्ख्याः शुभनामानो भवन्ति द्वीपसागराः ॥ १८७ ॥ जम्बूद्वीपोऽस्ति तन्मध्ये लक्षयोजनविस्तरः । आदित्यमण्डलाकारो बहुमध्यस्थमन्दरः ॥ १८८ ॥ १२३
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy