________________
प्रथम गुच्छक ।
उत्पद्यन्ते सहस्रारे तिर्यञ्चो व्रतसंयुताः ।
अत्रैव हि प्रजायन्ते सम्यक्त्वाराधका नराः ॥ १६५ ॥ न विद्यते परं ह्यस्मादुपपादोऽन्यलिङ्गिनाम् । निर्ग्रन्थश्रावका ये ते जायन्ते यावदच्युतम् ॥ १६६ ॥ धृत्वा निर्ग्रन्थलिङ्गं ये प्रकृष्टं कुर्वते तपः । अन्त्यग्रैवेयकं यावदभव्याः खलु यान्ति ते ।। १६७ ॥ यावत्सर्वार्थसिद्धि तु निर्ग्रन्था हि ततः परम् । उत्पद्यन्ते तपोयुक्ता रत्नत्रयपवित्रिताः । १६८ ।। भाज्या एकेन्द्रियत्वेन देवा ऐशानतश्च्युताः । तिर्यक्त्व मानुषत्वाभ्यामासहस्रारतः पुनः ॥ १६९ ॥ ततः परं तु ये देवास्ते सर्वेऽनन्तरे भवे । उत्पद्यन्ते मनुष्येषु न हि तिर्यक्षु जातुचित् ॥ १७० ॥ शलाकापुरुषा न स्युर्भीमज्योतिष्कभावनाः । अनन्तरभवे तेषां भाज्या भवति निर्वृतिः ॥ १७१ ॥ ततः परं विकल्यन्ते यावद्द्यैवेयकं सुराः । शलाकापुरुषत्वेन निर्वाणगमनेन च ॥ १७२ ॥ तीर्थेशरामचत्रित्वे निर्वाणगमनेन च ।
१२२
च्युताः सन्तो विकल्प्यन्तेऽनुदिशानुत्तरामराः ॥ १७३ ॥ भाज्यास्तीर्थेशचकित्वे च्युताः सर्वार्थसिद्धितः । विकल्पारामभावेऽपि सिद्ध्यन्ति नियमात्पुनः || १७४ ॥ दक्षिणेन्द्रास्तथा लोकपाला लौकान्तिकाः शची । शक्रश्च नियमाच्च्युत्वा सर्वे ते यान्ति निर्वृतिम् ॥ १७५ ॥ धर्माधर्मास्तिकायाभ्यां व्याप्तः कालाणुभिस्तथा । व्योम्नि पुगलसंछवो लोकः स्यात् क्षेत्रमात्मनाम् ॥ १७६ ॥