SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसारः । सर्वे पर्याप्तका जीवाः सूक्ष्मकायाश्च तैजसाः । वायवो संज्ञिनश्चैषां न तिर्यग्भ्यो विनिर्गमः ॥ १५३ ॥ त्रयाणां खलु कायानां विकलानामसंज्ञिनाम् । मानवानां तिरश्चां वाऽविरुद्धः संक्रमो मिथः ॥ १५४ ॥ नारकाणां सुराणां च विरुद्धः संक्रमो मिथः । नारको न हि देवः स्यान्न देवो नारको भवेत् ॥ १५५ ॥ भूम्याः स्थूलपर्याप्ताः प्रत्येकाङ्गवनस्पतिः । तिर्यग्मानुषदेवानां जन्मैषां परिकीर्त्तितम् ॥ १५६ ॥ सर्वेऽपि तैजसा जीवाः सर्वे चानिलकायिकाः । मनुजेषु न जायन्ते ध्रुवं जन्मन्यनन्तरे ॥ १५७ ॥ पूर्णासंज्ञितिरश्चामविरुद्धं जन्म जातुचित् । नारकामरतिर्यक्षु नृषु वा न तु सर्वतः ॥ १५८ ॥ सङ्ख्यातीतायुषां मर्त्यतिरश्चां तेभ्य एव तु । सङ्ख्यातवर्षजीविभ्यः संज्ञिभ्यो जन्मसंमृतम् ॥ १५९ ॥ सङ्ख्यातीतायुषां नूनं देवेष्वेवास्ति संक्रमः । निसर्गेण भवेत्तेषां यतो मन्दकषायता ॥ १६० शलाकापुरुषा नैव सन्त्यनन्तरजन्मनि । तिर्यञ्च मानुषाश्चैव भाज्याः सिद्धगतौ तु ते ॥ १६१ ॥ ये मिथ्यादृयो जीवाः संज्ञिनोऽसंज्ञिनोऽथवा । व्यन्तरास्ते प्रजायन्ते तथा भवनवासिनः ॥ १६२ ॥ संख्यातीतायुषो मर्त्यास्तिर्यञ्चश्वाप्यसदृशः । उत्कृष्टास्तापसाश्चैव यान्ति ज्योतिष्कदेवताम् ॥ १६३ ॥ ब्रह्मलोके प्रजायन्ते परिव्राजः प्रकर्षतः । आजीवास्तु सहस्रारं प्रकर्षेण प्रयान्ति हि ॥ १६४ ॥ १२१
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy