SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२० प्रथम गुच्छक । हस्तद्वितयमुत्सेधो मध्यप्रैवेयकेषु तु। अन्त्यप्रैवेयकेषु स्याद्धस्तोऽध्यर्द्धसमुन्नतिः। एकहस्तसमुत्सेधो विजयादिषु पञ्चसु ॥ १४२ ॥ (षट्पदम् ) योजनानां सहनं तु सातिरेकं प्रकर्षतः।। एकेन्द्रियस्य देहः स्याद्विक्षेयः स च पमिनि ॥ १४३ ।। त्रिकोशः कथितः कुम्भी शङ्को द्वादशयोजनः। सहस्रयोजनो मत्स्यो मधुपश्चैकयोजनः ॥ १४४ ॥ असङ्ख्याततमो भागो यावानरत्यङ्गलस्य तु । एकाक्षादिषु सर्वेषु देहस्तावान् जघन्यतः ॥ १४५ ॥ घामसंज्ञिनो यान्ति वंशान्ताश्च सरीसृपाः। मेघास्ताश्च विहङ्गाश्च अञ्जनान्ताश्च भोगिनः ॥ १४६ ॥ तामरिष्टां च सिंहास्तु मघव्यन्तास्तु योषितः। नरा मरस्याश्च गच्छन्ति माघवीं तांश्च पापिनः ॥१४७॥ न लभन्ते मनुष्यत्वं सप्तम्या निर्गताः क्षितेः । तिर्यक्त्वे च समुत्पद्य नरकं यान्ति ते पुनः ॥ १४७ ॥ मध्व्या मनुष्यलाभेन षष्ठया भूमेर्विनिर्गताः। सयमं तु.पुनः पुण्यं नाप्नुवन्तीति निश्चयः ॥ १४९ ॥ निर्गताः खलु पञ्चम्या लभन्ते केचन व्रतम् । प्रयान्ति न पुनर्मुक्ति भावसलेशयोगतः ।। १५० ॥ . लभन्ते निर्वृति केचिश्चतुर्थ्या निर्गताः क्षितेः। म पुनः प्राप्नुवन्त्येव पवित्र तीर्थकर्तृताम् ॥ १५१ ॥ लभन्ते तीर्थकर्तृत्वं ततोऽन्याभ्यो विनिर्गताः। निर्गत्य नारका न स्युर्बलकेशवचक्रिणः॥ १५२ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy